युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
मुक्तादोषयुक्तिः । · ११५ प्रायो विमुक्तानि भवन्ति भासा(:) ; शस्तानि माङ्गल्य तया तथापि ॥ १६ ॥ प्रमाणवर्णावररश्मियुक्तं सितं सुवृत्तं समसूक्ष्मरन्ध्रम् । अक्रेतुरप्या वहति प्रमोदं यन्मौक्तिकं तद्गुणवत्प्रदिष्टम् ॥ १७ ॥ एवं समस्तेन गुणोदयेन यन्मौक्तिकं योगमुपागतं स्यात् । न तस्य भर्त्तारमनर्थजात एकोऽपि दोषः समुपैति सद्यः ॥ १८ ॥ एवं सर्व्वगुणोपेतं मौक्तिकं येन धार्य्यते । तस्यायुर्व्वर्धते लक्ष्मीः सर्व्वपापं प्रणश्यति ॥ १९ ॥ गुणवद्गुरु यद्गे हे मौक्तिकैकं हि तिष्ठति । चञ्चलापि स्थिरा भूत्वा कमला तत्र तिष्ठति ॥ २० ॥ अथ दोषाः । यथा. — चत्वारः स्युर्महादोषाः षण्मध्याश्च प्रकीर्त्तिताः । एवं दश समाख्यातास्तेषां वक्ष्यामि लक्षणम् ॥ २१ ॥ यत्रैकदेशे संलग्नः शुक्तिखण्डो विभाव्यते । शुक्तिलग्नः समाख्यातः स दोषः कुष्ठकारकः ॥ २२ ॥ मीन-लोचन-संकाशो दृश्यते मौक्तिके तु यः । मत्स्याक्षः स तु दोषः स्यात् पुत्रनाशकरो ध्रुवम् ॥ २३ ॥ दीप्तिहीनं गतच्छायं जरठं तद्विदुर्बुधाः । तस्मिन् संधारिते मृत्युर्जायते नात्रसंशयः ॥ २४ ॥ मौक्तिकं विद्रुमच्छायमतिरक्तं विदुर्बुधाः । दारिद्र्यजनकं यस्मात्तस्मात्तत्परिवर्जयेत् ॥ २५ ॥ उपर्य्युपरि तिष्ठन्ति वलयो यत्र मौक्तिके । त्रिवृत्तं नाम तस्योक्तं सौभाग्य-क्षयकारकम् ॥ २६ ॥
११६ युक्तिकल्पतरौ— अवृत्तं[ मौक्तिकं यच्च चिपिटं तन्निगद्यते । मौक्तिकं ध्रियते येन तस्य कीर्त्तिर्भवेत् सदा ॥ २७ ॥ त्रिकोणं त्र्यस्रमाख्यातं सौभाग्य-क्षयकारकम् । दीर्घं यत्तत् कृशं प्रोक्तं प्रज्ञाविध्वंस-कारकम् ॥ २८ ॥ निमग्नमेकतोयच्च कृश-पार्श्वं तदुच्यते । सदोषं मौक्तिकं निन्द्यं निरुद्योगकरं हि तत् ॥ २९ ॥ अवृत्तं पिड़कोषेतं सर्व्वसम्पत्ति-हारकम् । यस्मिन् कृत्रिमसन्देहः क्वचिद्भवति मौक्तिके ॥ ३० ॥ उष्णे सलवणे स्नेहे निशां तद्वासयेज्जले । व्रीहिभिर्मर्द्दनीयं वा शुष्कवस्त्रोपवेष्टितम् ॥ यत्तु नायाति वैवर्ण्यं विज्ञेयं तदकृत्रिमम् ॥ ३१ ॥ तथाहि,— क्षिपेद्गोमूत्रभाण्डे तु लवण-क्षारसंयुते । स्वेदयेदग्निना वापि शुष्कवस्त्रेण वेष्टयेत् ॥ ३२ ॥ हस्ते मौक्तिकमादाय व्रीहिभिश्चोपघर्षयेत् । कृत्रिमं भङ्गमाप्नोति सहजञ्चाति दीप्यते ॥ ३३ ॥ कृत्वा पचेत् सुपिहिते शुभदार * भाण्डे, मुक्ताफलं निहित नूतनशुक्ति-काण्डम् । स्फोटन्तथा प्रणिदधौत ततश्च भाण्डात् ; संस्थाप्य धान्यनिचये च तमेकमासम् ॥ ३४ ॥ भादाय तत्सकलमेव ततोऽङ्ग(१)भाण्डम्, जम्बौरजातरस-योजनया विपक्वम् । ( १ ) ततोऽन्यभाण्डम् इति (ग) पुस्तक पाठः ।
- दारुत्यौषधिविशेषः। अथवा 'दारु' इति पाठे दीर्य्यते इति व्युत्पत्त्या काष्ठ- मयं पात्रम् इति ।
मुक्तादिमूल्ययुक्तिः । ११७ घृष्टं ततो मृदु तनूकृतपिच्छमूलैः ; कुर्याद् यथेच्छमिह मौक्तिकमाशुविद्धम् ॥ ३५ ॥ मृत्स्निमत्स्य पुटमध्यगतन्तु कृत्वा, पश्चात् पचेत्तु ततश्च वितानपत्या । दुग्धे ततः पयसि तद्विपचेत् सुधायाम् ; पक्वं ततोऽपि पयसा शुचिचिक्कणेन ॥ ३६ ॥ शुद्धं ततो विमलबस्त्र-विघर्षणेन स्यान्मौक्तिकं विमलसद्गुणकान्तियुक्तम् ॥ ३७ ॥ अथ मूल्यम् । पञ्चभिर्माषको ज्ञेयो गुञ्जाभिर्माषकैस्तथा । चतुर्भिः शाणमाख्यातं माषकैर्मणिवेदिभिः ॥ ३८ ॥ एकस्य शुक्ति प्रभवस्य शुद्ध मुक्तामणेः शाणकसम्मितस्य । मूल्यं सहस्राणि कपर्दकानि त्रिभिः शतैरभ्यधिकानि पञ्च ॥ ३६ ॥ यन्माष
११८ युक्तिकल्पतरो— गुञ्जाश्च षड् धारयतः शते द्वे, मूल्यं परं तस्य वदन्ति तज्ज्ञाः । गुञ्जाश्चतस्रो विधृतं शताद्धी- दर्द्धं लभेताप्यधिकं त्रिभिर्वा ॥ ४३ ॥ अतःपरं स्याद्धरण-प्रमाणं, संख्याविनिर्देश विनिश्चयोक्तिः । त्रयोदशानां धरणे धृतानां ; द्विकेति नाम प्रवदन्ति तज्ज्ञाः ॥ ४४ ॥ अध्यर्द्धमात्रच्च शतं कृतं स्यात्, मूल्यं गुणैस्तस्य समन्वितस्य । यदि षोडशभिर्भवेत् सम्पूर्णं ; धरणं तत् प्रवदन्ति दार्बिकाख्यम् ॥ ४५ ॥ अधिकं दशभिः शतञ्च मूल्यं, समवाप्नोत्यपि वालिशस्य हस्तात् । यदि विंशतिभिर्भवेत् सुपूर्णं ; धरणं मौक्तिकजं वदन्ति तज्ज्ञाः ॥ ४६ ॥ नवसप्ततिमाप्नु
? No. Could it be "मूष"? A rat's egg? Rats don't lay eggs! What about "तोष"? No. Let's look at the letter closely: Is it 'ष'? Wait! Look at the letter 'ष' in 'अवृत्तस्य' (line 13: 'स्य'), in 'सप्तमं' (स). Look at 'ष' in 'माषकम्' (line 5): loop with diagonal stroke. In line 11, the letter has a rounded shape... wait, could it be 'ष'? Wait! Could it be 'कूर्म्म'? No. Could it be "कूर्मडिम्ब"? No. Could it be "शोष"? No. Wait, let's look at the text as printed: "यत्तु चन्द्रांशु-संकाशमौषडिम्बफलाकृति ।" Letter by letter: म (ma) with 'ौ' matra? Yes, look at the two slants on the top bar! Next letter: It has a top bar, a vertical down, a curve to the right, wait... is it 'ष'? Yes, it looks exactly like 'ष'! So the typeset text literally reads: "मौषडिम्बफलाकृति" or "मोषडिम्बफलाकृति"! Let's look at the matra: there is a vertical line after 'म', and TWO slants above it: that is '
१२० युक्तिकल्पतरौ— नवमात्पञ्चमं यावत् कलञ्जेन समं यदा * । तत्क्रमादुत्तमं ज्ञेयं मौक्तिकं रत्न-वेदिभिः ॥ ६२ ॥ चतुर्दशाक्षमारभ्य दशसंख्या-विधिं क्रमात् । कलञ्जस्य समानं वा (३) मौक्तिकं मध्यमं विदुः ॥ ६३ ॥ आरभ्य विंशतितमात् क्रमात्पञ्चदशावधि । लङ्गरास्ताः कथिता मुक्ता मूल्यञ्च तदनुक्रमात् ॥ ६४ ॥ कलञ्जद्वयमानेन यद्येकं मौक्तिकम्भवेत् । न धार्यं नरनाथैस्तु देव-योग्यममानुषम् ॥ ६५ ॥ इत्थं विचार्य्य यो मुक्तां परिधत्ते नराधिपः । तस्यायुश्च यशो वीर्य्यं विपरीतमतोऽन्यथा ॥ ६६ ॥ इति श्रीभोजराजोये युक्तिकल्पतरौ मुक्तापरीक्षा ॥ ——००—— अथ वैदूर्य्य परीक्षा । कल्पान्तकाल क्षुभिताम्बुराशि, निर्ह्रादकल्पा दितिजस्य नादम् । वैदूर्य्यमुत्पन्नमनेकवर्णं ; शोभाभिरामं द्युतिवर्ण-वौजम् ॥ ६७ ॥ अविदूरे विदूरस्य (४) गिरेरुत्तङ्ग-रोधसः । कामभूतिक-सौमान-मनु तस्याकरोऽभवत् † ॥ ६८ ॥
(३) समानत्वात् इति (ख) पुस्तकपाठः । (४) अविदूरे वैदूर्य्यस्य इति (ग) पुस्तक पाठः ।
- नवमात् पञ्चमं यावत् — इत्यारभ्य मध्यमम्बिदुरित्यन्तं श्लोकद्वयं (क) पुस्तकेऽधिकं दृश्यते । † कामभूतिकसौमानं इति पाठमनादृत्य 'काकतालीसौमान्ते मनीनामाकरोऽभवत्' इत्येवं वृद्धवचनमित्युक्त्वामल्लिनाथेन कुमारसम्भव टीकायान्तदवादि ।
वैदूर्य्योक्तिः । १२१ तस्य नाद-समुत्थत्वादाकारः सुमहागुणः । अभूदुत्त(१)रितो लोके लोकत्रय-विभूषणः ॥ ६९ ॥ तस्यैव दानव-पते र्निंनदानुरूप-, प्रावृट् पयोद-वरदर्शित-चारुरूपाः । वैदूर्य्यरत्नमणयो विविधावभासाः ; तस्मात् स्फुलिङ्ग-निवहा इव सम्बभूवुः ॥ ७० ॥ पद्मरागमुपादाय मणि-वर्णा हि ये क्षितौ । सर्वांस्तान् वर्ण-शोभाभि र्वैदूर्य्यमनुगच्छति ॥ ७१ ॥ तेषां प्रधानं शिखिकण्ठ-नीलम्, यद्वा भवेद्वेणु-दल-प्रकाशम् । चाषाग्रपक्ष-प्रतिमश्रियो ये ; न ते प्रशस्ता मणि-शास्त्रविद्भिः ॥ ७२ ॥ तथा च,— सितञ्च धूम्र-सङ्काशमीषत्कृष्णनिभम्भवेत् । वैदूर्य्यं नाम तद्रत्नं रत्नविद्भिरुदाहृतम् ॥ ७३ ॥ ब्रह्म-क्षत्रिय-विट्-शूद्रजाति-भेदाच्चतुर्विधम् । सितनीलो भवेद्विप्रः सितरक्तस्तु वाहुजः । पीतानिलस्तु वैश्यः स्यान्नील एव हि शूद्रकः ॥ ७४ ॥ अथ गुणाः । मार्जार-नयन-प्रख्यं रसोन-प्रतिमं हि वा । कलिलं निर्मलं व्यङ्गं वैदूर्य्यं देवभूषणम् ॥ ७५ ॥ सुतारं घन-मत्यच्छं कलिलं व्यङ्गमेव च । वैदूर्य्याणां समाख्याता एते पञ्च महागुणाः ॥ ७६ ॥ तद्यथा,— उद्गिरन्निव दीप्तिं योऽसौ सुतार इति गद्यते ॥ ७७ ॥ १६
१२२ युक्तिकल्पतरौ— प्रमाणताल्पं गुरुयद् घनमित्यभिधीयते ॥ ७८ ॥ कलङ्कादि-विहोनन्तदत्यच्छमिति कीर्त्तितम् । ब्रह्म-सूत्रं कलाकारश्चञ्चलो यत्रदृश्यते ॥ ७६ ॥ कलिलं नामतद्राङ्गः सर्व-सम्पत्ति-कारकम् । विशिष्टाङ्गन्तु वैदूर्य्यं व्यङ्गमित्यभिधीयते ॥ ८० ॥ गुणवान् वैदूर्य्य-मणैर्योजयति स्वामिनं वरभा(भो)ग्यैः । दोषैर्युक्तो दोषैस्तस्माद् यत्नात् परीक्षेत ॥ ८१ ॥ कर्करं कर्कशश्वासः कलङ्को देह इत्यपि । एते पञ्च महादोषा वैदूर्य्याणामुदीरिताः ॥ ८२ ॥ शर्करायुक्तमिव यत् प्रतिभाति च कर्करम् । स्पर्शेऽपि च यत्तज्ज्ञेयं कर्करं वस्तुनाशनम् ॥ ८३ ॥ भिन्न भ्रान्ति-करश्वासः स कुर्य्यात् कुल-संक्षयम् । विरुद्ध-वर्णो यस्याङ्गे कलङ्कः क्षय-कारकः ॥ ८४ ॥ मलदिग्ध इवाभाति देहो देह-विनाशनः ॥ ८५ ॥ जयति यदि सुवर्णं त्यागहीनं यदा वा, बहुविध-मणिधारी भूपतिर्वा यतिर्वा । दधदपि धृतदोषं जातु वैदूर्य्यरत्नम् ; प्रतिशत-फलरूप-पातमेष(ष्य)त्यवश्यम् ॥ ८६ ॥ गिरिकाच-शिशुपालौ काच-स्फटिकाश्च भूमिनिर्भिन्नाः । वैदूर्य्य-मणेरेते विजातयः सन्निभाः सन्ति ॥ ८७ ॥ लिख्याभावात् काचं लघुभावाच्छैशुपालकम्बिद्यात् । गिरिकाचमदीप्तित्वात् स्फटिकं वर्णोज्ज्वलत्वेन ॥ ८८ ॥ जात्यस्य वर्णस्य मणेर्नजातु विजातयः सन्ति समानवर्णाः । तथापि नानाकरणार्थमेवं भेदप्रकारः परमः प्रदिष्टः ॥ ८९ ॥ सुखोपलच्छ्यस्य सदा विचार्यो ह्ययं प्रभेदो विदुषा नरेण ।
इन्द्रनीलयुक्तिः । १२३ स्नेह-प्रभेदो लघुता मृदुत्वं विजाति-लिङ्गं खलु सर्व्वजन्यम् ॥६०॥ यदिन्द्रनीलस्य महागुणस्य सुवर्ण-संख्याकलितस्य मूल्यम् । तदेव वैदूर्य्यमणेः प्रदिष्टं पलद्वयोन्मापित-गौरवस्य ॥ ६१ ॥ कुशलाकुशलैः प्रयुज्यमानाः, प्रतिबद्धाः प्रतिसत्क्रिया प्रयोगैः । गुणदोष-समुद्भवं लभन्ते ; मणयोऽर्थान्तरमूल्यमेव भिन्नाः ॥ ६२ ॥ क्रमशः समतीत-वर्त्तमानाः, प्रतिबद्धा मणिवन्धकेन यत्नात् * । यदि नाम भवन्ति दोष-हीना ; मणयः षड्गुणमाप्नुवन्ति मूल्यम् ॥ ६३ ॥ आकरान् समतीतानां उदधेस्तीर-सन्निधौ । मूल्यमेतन्मणीनान्तु न सर्व्वत्र महीतले ॥ ६४ ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ वैदूर्य्यपरीक्षा ॥ —*— अथ इन्द्रनीलपरीक्षा । तथा च गारुड़े,— [ आकरः ]। तत्रैव सिंहलवधू-करपल्लवाग्र- व्यालूनवाललवनी-कुसुम-प्रवाले । देशे पपात दितिजस्य नितान्तकान्तम् ; प्रोत्फुल्लनीरज-समद्युति नेत्रयुग्मम् ॥ ६५ ॥
- अन्यत्सर्वं गारुड़े विसप्ततितममाध्यायेऽनुसन्धेयम् ।
१२४ युक्तिकल्पतरौ— तत्प्रत्ययादुभय-शोभन-वीचिभासा, विस्तारिणी जलनिधेरुपकच्छभूमिः । प्रोज्झिन्न केतकवन-प्रतिबद्ध-लेखा ; सान्द्रेन्द्रनीलमणि-रत्न-वती विभाति ॥ ९६ ॥ ‘तत्रासिताञ्जन-हलभृद्वसनासिभृङ्ग- शार्ङ्गायुधाभ-हरकण्ठ-कलाय-पुष्पैः । शुक्तेतरैश्च कुसुमैर्गिरिकर्णिकाया- स्तस्मिन् भवन्ति मणयः सदृशावभासाः ॥ ९७ ॥ अन्ये प्रसन्नपयसः पयसां निधातु- रम्बुत्विषः शिखिगल-प्रतिमास्तथाऽन्ये । नीलोत्पलप्रभा (१) वुहुदभाश्च केचित् ; केचित्तथा समद(२)कोकिलकण्ठ-भासः ॥ ९८ ॥ एक प्रकारा(३)विस्पष्ट-वर्णशोभावभासिनः । जायन्ते मणयस्तस्मिन् इ
इन्द्रनीलयुक्तिः । १२५ यस्य मध्यगता भाति नीलस्येन्द्रायुध-प्रभा । तदिन्द्रनीलमित्याहुर्महार्घ्यं भुवि दुर्लभम् ॥ ३ ॥ यस्तु वर्णस्य भूयस्त्वात् क्षीरे शतगुणे स्थितः । नीलतां तन्नयेत् सर्व्वं महानीलः स उच्यते ॥ ४ ॥ तथा च,— इन्द्रनीलस्तु नीलात्मा पद्मरागस्तु लोहितः । आनील-शुक्ल-स्निग्धस्तु मणिर्मानवकोमतः ॥ ५ ॥ आलोहित-मपीतञ्च स्वच्छं काषायकं विदुः । आपीत-पाण्डु-पाषाणः पुष्परागोऽभिधीयते ॥ ६ ॥ तमेव लोहिताकारमाहुः कौरुण्डकं बुधाः ॥ ७ ॥ अथ गुणाः । गुरुः स्निग्धश्च वर्णाढ्यः पार्श्ववाञ्चैव रञ्जकः । इन्द्रनीलः समाख्यातः पञ्चभिः सुमहागुणैः ॥ ८ ॥ प्रमाणेऽल्पोगुरुर्माने कुरुवृद्धि-करो गुरुः । स्नेहं स्रवदिवाभाति स्निग्धं धनविवर्द्धनम् ॥ ९ ॥ - बालार्काभिमुखो नीलो वमेन्नीलां शिखां हि यः । वर्णाढ्यो नाम नीलोऽयं धनधान्य-विवर्द्धनः ॥ १० ॥ स्फाटिकं रजतं स्वर्णमन्यद्वा वस्तु तैजसम् । पार्श्वस्थितं नील-मणिः पार्श्ववर्त्ती यशः प्रदम् ॥ ११ ॥ आश्चर्यं नीलमणियंत्तु तमसेव समावृतम् । रञ्जको नाम नीलोयं श्रीयशः कुलवर्द्धनः ॥ १२ ॥ अथ दोषाः [ इन्द्रनीलस्य ] । दोषा नीले प्रवक्ष्यामि नामभिर्लक्षणैश्च षट् । अभ्रवत् पटलं यस्य तदभ्रकमिति स्मृतम् ॥ १३ ॥
३. तृतीय विभाग: शस्त्र-युक्ति (खड्ग, धनुष, गदा, चक्र), अश्व, गज एवं छत्र-सिंहासन युक्ति
१२६ युक्तिकल्पतरौ— धारणे तस्य सम्भूतिरायुश्चैव विनश्यति । शर्करामिश्रितमिति तद्विज्ञेयं सशर्करम् ॥ १४ ॥ तस्मिन् धृते दरिद्रत्वं देशत्यागश्च जायते । भेद-संशयहृत्त्रासस्तेन दंष्ट्रिभयम्भवेत् ॥ १५ ॥ भिन्नं भिन्नमिति प्राहुर्भार्य्यापुत्र-विनाशनम् । मृत्तिका यस्य गर्भस्था लक्ष्यते रत्नकोविदैः ॥ १६ ॥ मृत्तिकागर्भकं नाम त्वग्दोष-जनकम्भवेत् । दृशत् प्रलक्ष्यते गर्भे अश्मगर्भं विनाशकृत्(हृत्) ॥ १७ ॥ चित्रवर्ण इवाभाति चित्रकः कुलनाशनः ॥ १८ ॥ तथा च,— अभ्रक-पटलच्छाया त्रासचित्रक एव च । मृदश्मगर्भरौक्षाणि महानीलेषु दूषणम् ॥ १८ ॥ अथच्छाया,— नौलोरसमप्रभासा वैष्णवीपुष्यसन्निभा । नवनी-पुष्पसंकाशा नीलेन्दीवर-सन्निभा ॥ २० ॥ अतसीपुष्पसंक्राशा चाषपक्ष-समच्छविः । कृष्णाद्रि-कर्णिकापुष्प समान-द्युति-धारिणी ॥ २१ ॥ मयूरकण्ठ-सच्छाया शम्भु-कण्ठसमा तथा । विच्छादेह-समाभासा भृङ्गपक्षसम-प्रभा ॥ २२ ॥ इन्द्रनीले धृते शुद्धे शौरिरेषः प्रसीदति । आयुः कुलं यशो बुद्धिलक्ष्मी-शोभा च वर्द्धते ॥ २३ ॥ धार्य्यमानस्य ये दृष्टाः पद्मरागमणेर्गुणाः । धारणादीन्द्रनीलस्य तानेवाप्नोति मानवः ॥ २४ ॥ अथ परीक्षा [ इन्द्रनीलस्य ] । काचोत्पलकरवीर स्फटिकाद्या इह बुधैः स वैदूर्य्याः ।
मरकतयुक्तिः । १२७ कथिता विजातय इमे सदृशा मणिरिन्द्रनीलेन ॥ २५ ॥ गुरुभावकठिन-भावावितेषां नित्यमेव विज्ञेयौ । काचाद् यथावदुत्तर-विवर्द्धमानौ विशेषेण ॥ २६ ॥ इन्द्रनीलो यदा कश्चिद्विभर्त्त्याताम्रवर्णताम् । रक्तणैयौ तथा ताम्रौ करवीरौत्पलावभौ ॥ २७ ॥ यावन्तञ्च क्रमेदग्निं पद्मरागः प्रयोगतः । इन्द्रनीलमणिस्तस्मात् क्रमेत सुमहत्तरम् ॥ २८ ॥ तदाकर-समुद्भूतो मत्तभृङ्ग-सम-द्युतिः । दीप्तिच्छाया-समाविष्टो भ्रामरो मणिरुच्यते ॥ २६ ॥ आरक्तता सदा तत्र तदा टोट्टिभसंज्ञितः । तस्य धारणमात्रेण गर्भिणी स्त्री प्रसूयते ॥ ३० ॥ अथ मूल्यम्,— यत्पद्मरागस्य महागुणस्य, मूल्यम्भवेन्माष(स)-समुन्त्रि(त्थि)तस्य । तदिन्द्रनीलस्य महागुणस्य ; सुवर्णसंख्या तुलितस्य मूल्यम् ॥ ३१ ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ इन्द्रनील परीक्षा ॥ अथ मरकत परीक्षा । गरुड़पुराणे,— दानवाधिपतेः पित्तमादाय भुजगाधिपः । द्विधा कुर्व्वन्निव व्योम-सत्वरं वासुकिर्ययौ ॥ ३२ ॥ (स तदा स्व-शिरोरत्न-प्रभादीप्ते नभोऽम्बुधौ ।
१२८ युक्तिकल्पतरौ— राजतः स महानेकः खण्डसेतुरिवावभौ) ॥ ३३ ॥ ततः पक्ष-निपातेन संहरन्नपि रोदसी। गरुत्मान् पन्नगेन्द्रस्य प्रहत्तुंमुपचक्रमे ॥ ३४ ॥ सहसैव सुमोच तत्फणीन्द्रः, सुरसाद्युक्त तुरस्कपादपायाम् । नलिकावनगन्ध-वासितायां; वरमाणिक्यगिरेरुपत्यकायाम् ॥ ३५ ॥ तस्य प्रपात समनन्तर-कालमेव, तद्दरालयमतौत्य रमासमीपे । स्थानं चितेरूपपयोनिधि-तौर लेखम् ; तत् प्रत्यान्मकरता-करताज्जगाम ॥ ३६ ॥ तत्रैव किञ्चित् पततस्तु पित्तात्, उत्पत्य जग्राह ततो गरुत्मान् । मूर्च्छा परीतः सहसैव घोणा-; रन्ध्रद्वयेन प्रमुमोच सर्वम् ॥ ३७ ॥ तन्ना कठोर-शुककण्ठ-शिरोष
मरकतयुक्तिः । १२९ सर्वमन्त्रौषधिगणैर्यन्नशक्यं चिकित्षितुम् । महाहि-दंष्ट्राप्रभवं विषं तत्तेन शाम्यति ॥ ४१ ॥ अन्यमप्याकरे यच्च यद्दोषैरपवर्ज्जितम् । जायते तत्पवित्राणामुत्तमं परिकीर्त्तितम् ॥ ४२ ॥ अत्यन्तहरिद्वर्णं कोमलमर्चिर्विभेद जटिलञ्च । काञ्चनचूर्णैर्नान्तःपूर्णमिव लक्ष्यते यच्च ॥ ४३ ॥ युक्तं संस्थानगुणैः समरागं गौरवेण विहीनम् । सवितुः करसंस्पर्शात् क्रूरयति सर्वाश्रयं दीप्त्या ॥ ४४ ॥ हित्वा च हरितभावं यस्यान्र्तविनिहिता भवेद्दीप्तिः । अचिरप्रभा प्रभाहत नवशाद्वल-सन्निभा भाति ॥ ४५ ॥ यच्च मनसः प्रसादं विदधाति विरोचितमतिमात्रम् । तन्मरकतं महागुणमिति रत्न-विदां मनोवृत्तिः ॥ ४६ ॥ यस्तु भास्करसंस्पर्शाद्धस्त-न्यस्तो महामणिः । रञ्जयेदात्म-पादैस्तु महामरकतं हि तत् ॥ ४७ ॥ चतुर्द्धा जातिभेदस्तु महामरकते मणौ । छायाभेदेन विज्ञेयो चतुर्व्वर्ण(र्गं)स्य लक्षणैः ॥ ४८ । अथ मरकतमणेश्छाया । भवेदष्टविधा छाया मणेर्मरकतस्य च । बर्हि-पुच्छसमाभासा चाष-पक्ष-समापरा ॥ ४९ ॥ हरित्-काच-निभा चान्या तथा शैवाल-सन्निभा । खद्योत-पृष्ठ-संकाशा वालकौरसमा तथा ॥ ५० ॥ नवशाद्वलसच्छाया शिरीष-कुसुमोपमा । एवमष्टौ समाख्याताश्छाया मरकताश्रयाः ॥ ५१ ॥ छायाभिर्युक्तामेताभिः श्रेष्ठं मरकतम्भवेत् । १७
१३• युक्तिकल्पतरौ— पद्मरागगतः स्वच्छो जलविन्दुर्यथा भवेत् । तथा मरकतच्छाया श्यामला हरितामला ॥ ५२ ॥ अथ दोष-गुणाः । दोषाः सप्त भवन्त्यस्य गुणाः पञ्चविधा स्मृताः । अस्निग्धं रूक्षमित्युक्तं व्याधिस्तस्य धृते भवेत् ॥ ५३ ॥ विस्फोटः स्यात् सपिड़के तत्र शस्त्रहतिर्भवेत् । स पाषाणे भवेदिष्टनाशो मरकते धृते ॥ ५४ ॥ विच्छायं मलिनं प्राहुर्वार्य्यते नतु धार्य्यते । शर्करं कर्करायुक्तं पुत्रशोक-प्रदं धृतम् ॥ ५५ ॥ जरठं (१) कान्तिहीनन्तु दंष्ट्रिवाङ्गिभयावहम् । कल्माषवर्णं धवलं ततो मृत्यु-भयम्भवेत् । इति दोषाः समाख्याता वर्ण्यन्तेऽथ महागुणाः ॥ ५६ ॥ अथ गुणाः । निर्मलं कथितं स्वच्छं गुरु स्याद् गुरुतायुतम् । स्निग्धं रूक्षविनिर्मुक्त मरजस्कमरेणुकम् ॥ ५७ ॥ सुरागं रागबहुलं मणेः पञ्चगुणा मताः । एतैर्युक्तं मरकतं सर्व्वपाप भयापहम् ॥ ५८ ॥ गजवाजि-रथान्दत्त्वा विप्रेभ्यो विस्तराब्धि मे । तत्फलं समवाप्नोति शुद्धे मरकते धृते ॥ ५९ ॥ धनधान्यादि-करणे तथा सैन्य-क्रियाविधौ ॥ ६० ॥ विषरोगोपशमने कर्म्मस्थैर्य्यर्णशेषु च । शस्यते मुनिभिर्यस्मादयं मरकतो मणिः ॥ ६१ ॥ (१) जठरं इति (ख) पुस्तक पाठः ।
मरकतयुक्तिः । १३१ तथा च,— स्वच्छता गुरुता कान्तिः स्निग्धत्वं पित्तकारणम् । हरिन्निराञ्जकत्वञ्च सप्त मारकते गुणाः ॥ ६२ ॥ अथ कृत्रिमाकृत्रिम-परीक्षा । कृत्रिमत्वं सहजत्वं दृश्यते सूरिभिः क्वचित् । घर्षयेत् प्रस्तरे व्यङ्गं काचस्तस्माद्विपद्यते ॥ ६३ ॥ लेखयेल्लोहशृङ्गेण चूर्णेनाथ विलेपयेत् । सहजः कान्तिमाप्नोति कृत्रिमो मलिनायते ॥ ६४ ॥ भल्लातः (कः) पुत्रिका काचस्तद्वर्णमनुयोगतः । मणेर्मरकतस्यैते लक्षणीया विजातयः ॥ ६५ ॥ क्षौमेण वाससा घृष्टा दीप्तिं त्यजति पुत्रिका । लाघवेनैव काचस्य शक्या कर्तुं विभावना ॥ ६६ ॥ अथ मरकतमूल्यम् । तथा च गारुड़े,— तुलया पद्मरागस्य यन्मूल्यमुपजायते । लभ्यतेऽभ्यधिकन्तस्मात् गुणैर्मरकतं स्मृतम् ॥ ६७ ॥ यथा च पद्मरागाणां दोषैर्मूल्यं प्रहीयते । ततोऽस्मिन्नपि सा हानिर्दोषैर्मरकते भवेत् ॥ ६८ ॥ तथाच,— गुणपिण्डसमायुक्तो हरितश्यामभास्करे । मूल्यं द्वादशकं प्रोक्तं जातिभेदेन सूरिभिः ॥ ६९ ॥ यवैकेन शतं पञ्च सहस्रं द्वितये यवे । त्रिभिश्चैव सहस्रे द्वे चतुर्भिंश्च चतुर्गुणम् ॥ ७० ॥
Digitized By Siddhanta eGangotri Gyaan Kosha १३२ युक्तिकल्पतरौ— अष्टानां मुख्यरत्नानां लक्षणानि निरूप्य च । वक्ष्यन्ते चान्यरत्नानां लक्षणानि यथाक्रमम् * ॥ ७१ ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ मरकत † परीक्षा ॥ ——— अथ पुष्पराग परीक्षा । पतिता या हिमाद्रौ हि त्वचस्तस्य सुरद्विषः । प्रादुर्भवन्ति ताभ्यस्तु पुष्परागा महागुणाः ७२ ॥ शणपुष्पसमः कान्त्या स्वच्छभावः सुचिक्कणः । पुत्रधनप्रदः पुण्यः पुष्परागमणिर्धृतः ॥ ७३ ॥ दैत्यधातु समुद्भूतः पुष्परागमणिर्द्विधा । पद्मरागाकरे कश्चित् कश्चित्ताच्र्योपलाकरे ॥ ७४ ॥ ईषत्पीतच्छविच्छाया स्वच्छं कान्त्या मनोहरम् । पुष्परागमिति प्रोक्तं रङ्गसोम महीभुजा ॥ ७५ ॥ ब्रह्मादि जातिभेदेन तद्विज्ञेयं चतुर्विधम् । छाया चतुर्विधा तस्य सिता पीतासितासिता ॥ ७६ ॥ मूल्यं वैदूर्य्यमणेरिव गदितं ह्यस्य रत्नशास्त्रविद्भिः । धारणफलञ्च तद्वत् किन्तु स्त्रीणां सुतप्रदो भवति ॥ ७७ ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ पुष्परागपरीक्षा ॥ ———
- श्लोकोऽयं (ख) पुस्तकेऽधिकः दृश्यते । † अन्यत्तु गारुड़-शुक्रनीति-मानसोल्लास-अगस्तिमत-राजनिर्घण्ट मणिपरीक्षास्ववगन्त- व्यम् । अस्य नाम मरकत-राजनील-गरुडाङ्कित-रौहिणेय-सौपर्ण-गरुड़ोद्गीर्ण-बुधरत्न-'पान्ना' इत्यभिधीयते कोषेषु । CC-0. Gurukul Kangri Collection, Haridwar.
कर्केतनमणियुक्तिः । १२३ अथ कर्केतन-मणि परीक्षा । तथा च गारुड़े,— वायुर्नखान् दैत्यपतेर्गृहीत्वा चिक्षेप सम्पद्य वनेषु हृष्टः । ततः प्रसूतं पवनोपपन्नं कर्केतनं पूज्यतमं पृथिव्याम् ॥ ७८ ॥ वर्णेन तद्रुधिरसोममधु प्रकाश- माताम्रपीत दहनोज्ज्वलितं विभाति । नीलं पुनः खलु सितं परुषं विभिन्नम् ; व्याध्यादिदोषहरणेन न तद्विभाति ॥ ७६ ॥ स्निग्धा विशुद्धाः समरागिणश्च, आपीतवर्णा गुरवो विचित्राः । त्रासव्रण-व्याधि विवर्जिताश्च ; कर्केतनास्ते परमाः पवित्राः ॥८०॥ पट्टेन काञ्चनमयेन तु वेष्टयित्वा, हस्ते गलेऽथ धृतमेतदतिप्रकाशम् । रोग प्रणाशनकरं कलिनाशनञ्च ; आयुस्करं कुलकरञ्च सुखप्रदञ्च ॥ ८१ ॥ एवंविधं बहुगुणं मणिमावहन्ति, कर्केतनं शुभमलङ्कृतये नरा ये । ते पूजिता बहुधना बहुवान्धवाश्च ; नित्योञ्ज्वला प्रमुदिता अपि ये भवन्ति ॥ ८२ ॥ एके पिनह्य बिभ्रताकुल-नीलभासः, प्रम्लानरागलुलिताः कलुषा विरूपाः । तेजोऽति दीप्ति कुलपुष्टि विहीनवर्णाः ; कर्केतनस्य सदृशं वपुरुद्वहन्ति ॥ ८३ ॥ कर्केतनं यदि परीक्षितवर्णरूपं, प्रत्यग्रभास्कर दिवाकर सुप्रकाशम् ।
१३४ युक्तिकल्पतरो— तस्योत्तमस्य मणिशास्त्रविदा महिम्ना ; तुल्यन्तु मूल्यमुदितं तुलितस्य कार्य्यम् ॥८४॥ इति श्रीभोजराजीये युक्तिकल्पतरौ कर्केतनपरीक्षा ॥ अथ भीष्ममणि परीक्षा । तथा च गरुड़पुराणे,— हिमवत्युत्तरे देशे वीर्य्यं पतितं सुरद्विषस्तस्य । सम्प्राप्तमुत्तमानामाकरतां भीष्मरत्नानाम् ॥ ८५ ॥ तथा च,— कलिङ्गे मगधे चैव मलये च हिमाद्रये । भीष्मरत्न समुत्पातस्तस्य लक्षणमुच्यते ॥ ८६ ॥ शुक्लाः शङ्खाजनिभाः श्योनाकसन्निभाः प्रभावन्तः । प्रभवन्ति ततस्तरुणा वज्रनिभा भीष्मपाषाणाः ॥ ८७ ॥ हिमाद्रि प्रतिवद्धं शुद्धमपि अद्धया विधत्ते यः । भीष्ममणिं ग्रीवादिषु स सम्पदं सर्वदा लभते ॥ ८८ ॥ गुणयुक्तस्य तस्यैव धारणान्मुनिपुङ्गव । विषाणि तानि नश्यन्ति सर्व्वान्येव महीतले ॥ ८९ ॥ विषमा नो बाधन्ते ये तमरख्यनिवासिनः समीपेऽपि । द्वीपिद्वक्शरभकुञ्जरसिंहव्याघ्रादयो हिंस्राः ॥ ९० ॥ तस्योत्कवलित क्षतितो भवन्ति भयं न चापि समुपस्थितम् । भीष्ममणिर्गु णयुक्तः सम्यक् सम्प्राप्ताङ्गुलित्रितयः । पितृतर्पणे पितॄणां तृप्तिर्व्वहुवार्षिकी भवति ॥ ९१ ॥ शाम्यन्युद्भूतान्यपि सर्पाण्डजाखुवृश्चिकविषाणि ।