युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 162, कुल 278 में से
संदर्भ में पढ़ें१२२ युक्तिकल्पतरौ— प्रमाणताल्पं गुरुयद् घनमित्यभिधीयते ॥ ७८ ॥ कलङ्कादि-विहोनन्तदत्यच्छमिति कीर्त्तितम् । ब्रह्म-सूत्रं कलाकारश्चञ्चलो यत्रदृश्यते ॥ ७६ ॥ कलिलं नामतद्राङ्गः सर्व-सम्पत्ति-कारकम् । विशिष्टाङ्गन्तु वैदूर्य्यं व्यङ्गमित्यभिधीयते ॥ ८० ॥ गुणवान् वैदूर्य्य-मणैर्योजयति स्वामिनं वरभा(भो)ग्यैः । दोषैर्युक्तो दोषैस्तस्माद् यत्नात् परीक्षेत ॥ ८१ ॥ कर्करं कर्कशश्वासः कलङ्को देह इत्यपि । एते पञ्च महादोषा वैदूर्य्याणामुदीरिताः ॥ ८२ ॥ शर्करायुक्तमिव यत् प्रतिभाति च कर्करम् । स्पर्शेऽपि च यत्तज्ज्ञेयं कर्करं वस्तुनाशनम् ॥ ८३ ॥ भिन्न भ्रान्ति-करश्वासः स कुर्य्यात् कुल-संक्षयम् । विरुद्ध-वर्णो यस्याङ्गे कलङ्कः क्षय-कारकः ॥ ८४ ॥ मलदिग्ध इवाभाति देहो देह-विनाशनः ॥ ८५ ॥ जयति यदि सुवर्णं त्यागहीनं यदा वा, बहुविध-मणिधारी भूपतिर्वा यतिर्वा । दधदपि धृतदोषं जातु वैदूर्य्यरत्नम् ; प्रतिशत-फलरूप-पातमेष(ष्य)त्यवश्यम् ॥ ८६ ॥ गिरिकाच-शिशुपालौ काच-स्फटिकाश्च भूमिनिर्भिन्नाः । वैदूर्य्य-मणेरेते विजातयः सन्निभाः सन्ति ॥ ८७ ॥ लिख्याभावात् काचं लघुभावाच्छैशुपालकम्बिद्यात् । गिरिकाचमदीप्तित्वात् स्फटिकं वर्णोज्ज्वलत्वेन ॥ ८८ ॥ जात्यस्य वर्णस्य मणेर्नजातु विजातयः सन्ति समानवर्णाः । तथापि नानाकरणार्थमेवं भेदप्रकारः परमः प्रदिष्टः ॥ ८९ ॥ सुखोपलच्छ्यस्य सदा विचार्यो ह्ययं प्रभेदो विदुषा नरेण ।