युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 161, कुल 278 में से
संदर्भ में पढ़ेंवैदूर्य्योक्तिः । १२१ तस्य नाद-समुत्थत्वादाकारः सुमहागुणः । अभूदुत्त(१)रितो लोके लोकत्रय-विभूषणः ॥ ६९ ॥ तस्यैव दानव-पते र्निंनदानुरूप-, प्रावृट् पयोद-वरदर्शित-चारुरूपाः । वैदूर्य्यरत्नमणयो विविधावभासाः ; तस्मात् स्फुलिङ्ग-निवहा इव सम्बभूवुः ॥ ७० ॥ पद्मरागमुपादाय मणि-वर्णा हि ये क्षितौ । सर्वांस्तान् वर्ण-शोभाभि र्वैदूर्य्यमनुगच्छति ॥ ७१ ॥ तेषां प्रधानं शिखिकण्ठ-नीलम्, यद्वा भवेद्वेणु-दल-प्रकाशम् । चाषाग्रपक्ष-प्रतिमश्रियो ये ; न ते प्रशस्ता मणि-शास्त्रविद्भिः ॥ ७२ ॥ तथा च,— सितञ्च धूम्र-सङ्काशमीषत्कृष्णनिभम्भवेत् । वैदूर्य्यं नाम तद्रत्नं रत्नविद्भिरुदाहृतम् ॥ ७३ ॥ ब्रह्म-क्षत्रिय-विट्-शूद्रजाति-भेदाच्चतुर्विधम् । सितनीलो भवेद्विप्रः सितरक्तस्तु वाहुजः । पीतानिलस्तु वैश्यः स्यान्नील एव हि शूद्रकः ॥ ७४ ॥ अथ गुणाः । मार्जार-नयन-प्रख्यं रसोन-प्रतिमं हि वा । कलिलं निर्मलं व्यङ्गं वैदूर्य्यं देवभूषणम् ॥ ७५ ॥ सुतारं घन-मत्यच्छं कलिलं व्यङ्गमेव च । वैदूर्य्याणां समाख्याता एते पञ्च महागुणाः ॥ ७६ ॥ तद्यथा,— उद्गिरन्निव दीप्तिं योऽसौ सुतार इति गद्यते ॥ ७७ ॥ १६