युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 172, कुल 278 में से
संदर्भ में पढ़ेंDigitized By Siddhanta eGangotri Gyaan Kosha १३२ युक्तिकल्पतरौ— अष्टानां मुख्यरत्नानां लक्षणानि निरूप्य च । वक्ष्यन्ते चान्यरत्नानां लक्षणानि यथाक्रमम् * ॥ ७१ ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ मरकत † परीक्षा ॥ ——— अथ पुष्पराग परीक्षा । पतिता या हिमाद्रौ हि त्वचस्तस्य सुरद्विषः । प्रादुर्भवन्ति ताभ्यस्तु पुष्परागा महागुणाः ७२ ॥ शणपुष्पसमः कान्त्या स्वच्छभावः सुचिक्कणः । पुत्रधनप्रदः पुण्यः पुष्परागमणिर्धृतः ॥ ७३ ॥ दैत्यधातु समुद्भूतः पुष्परागमणिर्द्विधा । पद्मरागाकरे कश्चित् कश्चित्ताच्र्योपलाकरे ॥ ७४ ॥ ईषत्पीतच्छविच्छाया स्वच्छं कान्त्या मनोहरम् । पुष्परागमिति प्रोक्तं रङ्गसोम महीभुजा ॥ ७५ ॥ ब्रह्मादि जातिभेदेन तद्विज्ञेयं चतुर्विधम् । छाया चतुर्विधा तस्य सिता पीतासितासिता ॥ ७६ ॥ मूल्यं वैदूर्य्यमणेरिव गदितं ह्यस्य रत्नशास्त्रविद्भिः । धारणफलञ्च तद्वत् किन्तु स्त्रीणां सुतप्रदो भवति ॥ ७७ ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ पुष्परागपरीक्षा ॥ ———
- श्लोकोऽयं (ख) पुस्तकेऽधिकः दृश्यते । † अन्यत्तु गारुड़-शुक्रनीति-मानसोल्लास-अगस्तिमत-राजनिर्घण्ट मणिपरीक्षास्ववगन्त- व्यम् । अस्य नाम मरकत-राजनील-गरुडाङ्कित-रौहिणेय-सौपर्ण-गरुड़ोद्गीर्ण-बुधरत्न-'पान्ना' इत्यभिधीयते कोषेषु । CC-0. Gurukul Kangri Collection, Haridwar.