युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 173, कुल 278 में से
संदर्भ में पढ़ेंकर्केतनमणियुक्तिः । १२३ अथ कर्केतन-मणि परीक्षा । तथा च गारुड़े,— वायुर्नखान् दैत्यपतेर्गृहीत्वा चिक्षेप सम्पद्य वनेषु हृष्टः । ततः प्रसूतं पवनोपपन्नं कर्केतनं पूज्यतमं पृथिव्याम् ॥ ७८ ॥ वर्णेन तद्रुधिरसोममधु प्रकाश- माताम्रपीत दहनोज्ज्वलितं विभाति । नीलं पुनः खलु सितं परुषं विभिन्नम् ; व्याध्यादिदोषहरणेन न तद्विभाति ॥ ७६ ॥ स्निग्धा विशुद्धाः समरागिणश्च, आपीतवर्णा गुरवो विचित्राः । त्रासव्रण-व्याधि विवर्जिताश्च ; कर्केतनास्ते परमाः पवित्राः ॥८०॥ पट्टेन काञ्चनमयेन तु वेष्टयित्वा, हस्ते गलेऽथ धृतमेतदतिप्रकाशम् । रोग प्रणाशनकरं कलिनाशनञ्च ; आयुस्करं कुलकरञ्च सुखप्रदञ्च ॥ ८१ ॥ एवंविधं बहुगुणं मणिमावहन्ति, कर्केतनं शुभमलङ्कृतये नरा ये । ते पूजिता बहुधना बहुवान्धवाश्च ; नित्योञ्ज्वला प्रमुदिता अपि ये भवन्ति ॥ ८२ ॥ एके पिनह्य बिभ्रताकुल-नीलभासः, प्रम्लानरागलुलिताः कलुषा विरूपाः । तेजोऽति दीप्ति कुलपुष्टि विहीनवर्णाः ; कर्केतनस्य सदृशं वपुरुद्वहन्ति ॥ ८३ ॥ कर्केतनं यदि परीक्षितवर्णरूपं, प्रत्यग्रभास्कर दिवाकर सुप्रकाशम् ।