युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 166, कुल 278 में से
संदर्भ में पढ़ें१२६ युक्तिकल्पतरौ— धारणे तस्य सम्भूतिरायुश्चैव विनश्यति । शर्करामिश्रितमिति तद्विज्ञेयं सशर्करम् ॥ १४ ॥ तस्मिन् धृते दरिद्रत्वं देशत्यागश्च जायते । भेद-संशयहृत्त्रासस्तेन दंष्ट्रिभयम्भवेत् ॥ १५ ॥ भिन्नं भिन्नमिति प्राहुर्भार्य्यापुत्र-विनाशनम् । मृत्तिका यस्य गर्भस्था लक्ष्यते रत्नकोविदैः ॥ १६ ॥ मृत्तिकागर्भकं नाम त्वग्दोष-जनकम्भवेत् । दृशत् प्रलक्ष्यते गर्भे अश्मगर्भं विनाशकृत्(हृत्) ॥ १७ ॥ चित्रवर्ण इवाभाति चित्रकः कुलनाशनः ॥ १८ ॥ तथा च,— अभ्रक-पटलच्छाया त्रासचित्रक एव च । मृदश्मगर्भरौक्षाणि महानीलेषु दूषणम् ॥ १८ ॥ अथच्छाया,— नौलोरसमप्रभासा वैष्णवीपुष्यसन्निभा । नवनी-पुष्पसंकाशा नीलेन्दीवर-सन्निभा ॥ २० ॥ अतसीपुष्पसंक्राशा चाषपक्ष-समच्छविः । कृष्णाद्रि-कर्णिकापुष्प समान-द्युति-धारिणी ॥ २१ ॥ मयूरकण्ठ-सच्छाया शम्भु-कण्ठसमा तथा । विच्छादेह-समाभासा भृङ्गपक्षसम-प्रभा ॥ २२ ॥ इन्द्रनीले धृते शुद्धे शौरिरेषः प्रसीदति । आयुः कुलं यशो बुद्धिलक्ष्मी-शोभा च वर्द्धते ॥ २३ ॥ धार्य्यमानस्य ये दृष्टाः पद्मरागमणेर्गुणाः । धारणादीन्द्रनीलस्य तानेवाप्नोति मानवः ॥ २४ ॥ अथ परीक्षा [ इन्द्रनीलस्य ] । काचोत्पलकरवीर स्फटिकाद्या इह बुधैः स वैदूर्य्याः ।