युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 151, कुल 278 में से
संदर्भ में पढ़ेंमुक्तायुक्तिः । १११ रक्षाविधानं सुमहद्विधाय ; हर्म्योपविष्टं क्रियते यदा तत् ॥ ८० ॥ तदा महद्दुन्दुभि-तूर्य्यघोषैः घनैर्घनेराद्रियतेऽन्तरीक्षम् ॥ ८१ ॥ न तं भुजङ्गा न तु जातुधाना, न राक्षसा नापि च दुष्ट लोकाः । हिंसन्ति यस्याह्नि शिरः समुत्थं ; मुक्ताफलं तिष्ठति कोषमध्ये ॥८२॥ भेकादिष्वपि जायन्ते मणयो ये क्वचित् क्वचित् । भौजङ्गम मणेस्तुल्यास्ते विज्ञेया बुधोत्तमैः ॥ ८३ ॥ नक्षत्रमालेव दिवो विशीर्णा, दन्तावली तस्य महासुरस्य । विचित्र रूपेषु विचित्र-वर्णा ; पयः सुपत्युः पयसां पपात ॥ ८४ ॥ सम्पूर्ण-चन्द्रांशु कलापकान्ते, र्मणि प्रवेकस्य महागुणस्य । तच्छूक्तिमत्सु स्थितिमापवौज,– मासन् पुराण्यन्य भवानि यानि ॥ ८५ ॥ यस्मिन् प्रदेशेऽम्बुनिधौ पपात, सुचारुमुक्तामणिरत्नवौजम् । तस्मिन् पयस्तोयधराबकीर्णं ; शुक्तौ स्थितं मौक्तिकतामवाप ॥ ८६ ॥ सैंहलिक पारलौकिक-सौराष्ट्रिक-ताम्रपर्णि पारसवाः । कौवेर-पाण्ड्य-वाटक-हैमा इत्याकरा ह्यष्टौ ॥ ८७ ॥ स्वात्यां स्थिते रवौ मेघैर्य्ये मुक्ता जलविन्दवः । शीर्णाः शुक्तिषु जायन्ते तैर्मुक्ता निर्मल-त्विषः ॥ ८८ ॥ स्थूला मध्यास्तथा सूक्ष्मा विन्दुमानानुसारतः ।