युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 150, कुल 278 में से
संदर्भ में पढ़ें११० युक्तिकल्पतरौ— लघिष्ठमरुणं वाता दापीतं मृदुपित्ततः । शुक्लं गुरुकफोद्रेकाद्वातपित्तान्मृदुर्लघुः ॥ ७२ ॥ वातश्लेष्मभवं स्थूलं पित्तश्लेष्मजमच्छकम् । सर्व्वलिङ्गप्रयोगेन सान्निपातिकमुच्यते ॥ ७३ ॥ एकजाः शुभदाः प्रोक्ता स्तथा वै सान्निपातिकाः ॥ ७४ ॥ फणि-मुक्तारूपम्,— भौजङ्गमं नील विशुद्धवर्णं सर्व्वम्भवेत् प्रोज्ज्वलवर्णशोभम् । नितान्तधौत-प्रतिकल्पमानं निस्त्रिंशधारा समवर्ण-शोभम् ॥ ७५ ॥ भुजङ्गमास्ते विषवेग तृप्ताः, श्रीवासुकेर्वंश-भवाः पृथिव्याम् । क्वचित्कदाचित् खलु पुण्यदेशे ; तिष्ठन्ति ते पश्यति तान् मनुष्यः ॥ ७६ ॥ तल्लक्षणमुच्यते,— फणिजं वर्त्तुलं रम्यं नीलच्छायं महाद्युतिम् । पुण्यहीना न पश्यन्ति वासुकेः कुल-सम्भवम् ॥ ७७ ॥ शृगाल-कोलामल-कोलगुञ्जा-फलप्रमाणास्तु चतुर्विधास्ते । स्युर्ब्रह्म-वाह्वङ्गज-वैश्यशूद्र-सर्पेषु जाताः प्रवरास्तु सर्वे ॥ ७८ ॥ फलं यथा,— प्राप्यापि रत्नानि धनं श्रियञ्च, राजश्रियञ्चा महतीं दुरापाम् । तेजोन्विताः पुण्यकृतो भवन्ति ; मुक्ताफलस्यास्य विधारणेन ॥ ७९ ॥ जिज्ञासयारत्न-विनिश्चयज्ञैः, शुभे मुहूर्त्ते प्रयतैः प्रयत्नात् ।