युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 154, कुल 278 में से
संदर्भ में पढ़ें११४ युक्तिकल्पतरौ— सित च्छाया भवेद्विप्रः क्षत्रियश्चार्कंरश्मिमान् । पीतच्छाया भवेद्वैश्यः शूद्रः कृष्णरुचिर्मतः ॥ ६ ॥ ——००—— अथ गुणाः । [ मात्स्ये ] । सुतारञ्च सुवृत्तञ्च स्वच्छञ्च निर्मलन्तथा । घनं स्निग्धञ्च सच्छायं तथाऽस्फुटितमेव च । अष्टौ गुणाः समाख्याता मौक्तिकानामशेषतः ॥ १० ॥ तद्यथा,— तारकाद्युतिसंकाशं सुतारमिति गद्यते । सर्व्वतो वर्त्तुलं यच्च सुवृत्तं तन्निगद्यते ॥ ११ ॥ स्वच्छं दोषविनिर्मुक्तं निर्मलं मलवर्ज्जितम् । गुरुत्वं तुलने यस्य तद्घनं मौक्तिकं वरम् ॥ १२ ॥ स्नेहेनैव विलिप्तं यत् तत् स्निग्धमिति गद्यते । छाया समन्वितं यच्च सु(स)च्छायं तन्निगद्यते । व्रणरेखाविहोनं यत् तत्स्यादस्फुटितं शुभम् ॥ १३ ॥ भ्राजिष्णु कोमलं कान्तं मनोज्ञं स्फुरतीव च । स्रवतीव च सत्त्वानि तन्महार्त्न संज्ञितम् ॥ १४ ॥ श्वेतकाच समाकारं शुभ्रांशु शतयोजितम् । ऋषराज(१) प्रतिच्छायं मौक्तिकं देवभूषणम् ॥ १५ ॥ गारुड़े,—* त्वक्सार नागेन्द्र-तिमि-प्रसूतम्, यच्छङ्खजं यच्च वराह जातम् । ─────────────────────────── ( १ ) शशिराज इति (ग) पुस्तक पाठः ।
- अन्यत् सर्व्वं शुक्रनीति-बृहत्संहिता-मत्स्यपुराण-मानसोल्लासादिषु अनुसन्धेयम् ।