युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 153, कुल 278 में से
संदर्भ में पढ़ेंDigitized By Siddhanta eGangotri Gyaan Kosha मुक्तायुक्तिः । ११३ वर्षोपलानां समवर्णशोभम्, त्वक्सार पर्व्वप्रभवं प्रदिष्टम् । ते वेणवो दिव्यजनोपभोग्ये ; स्थाने प्ररोहन्ति न सार्व्वजन्ये ॥ ९६ ॥ [ अथ वेणुजमुक्ता लक्षणारम्भः ] । वंशजं शशिसंकाशं कङ्कोलफलमार्द्रकम् । प्राप्यते बहुभिः पुण्यैस्तद्द्रव्यं वेदमन्त्रतः ॥ १०० ॥ पञ्चभूतसमुद्रेकाद्दंशे पञ्चविधे भवेत् । मुक्ताः पञ्चविधास्तासां यथा लक्षणमुच्यते ॥ १ ॥ पार्थिवी गुरुवत्सा च तैजसी तेजसा लघुः । वायवी च मृदुः स्थूला गागनी कोमला लघुः ॥ २ ॥ आप्याः स्निग्धाः भृशं शुक्लाः पञ्चैताः प्रवरा मताः । आसां धारणमात्रेण व्याधिः कोऽपि न जायते ॥ ३ ॥ एवमन्यत्रापि,— गजाहि कोलमत्स्यानां शीर्षे मुक्ताफलोद्भवः । त्वक्सार शुक्ति-शङ्खानां गर्भे मुक्ताफलोद्भवः ॥ ४ ॥ धाराधरेषु जायेत मौक्तिकं जलविन्दुभिः । जीमूते शुचिरूपञ्च गजे पाटलभास्वरम् ॥ ५ ॥ मत्स्ये श्वेतञ्च निस्तेजः फणीन्द्रे नीलभास्वरम् । हरिश्च्छ्वेतं तथा वंशे पीतश्वेतञ्च शूकरे ॥ ६ ॥ शङ्खशुक्त्युद्भवं श्वेतं मुक्नारत्नमनुत्तमम् । चतुर्धा मौक्तिके छाया पीता च मधुरा सिता ॥ ७ ॥ नीला चैव समाख्याता 'रत्न-तत्त्व परीक्षकैः' । पीता लक्ष्मीप्रदा च्छाया मधुरा बुद्धिवर्द्धिनी ॥ ८ । शुक्ला यशस्करी च्छाया नीला सौभाग्य-दायिनी । १५ CC-0. Gurukul Kangri Collection, Haridwar.