भारतकोश
युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा

DevanagariHindipublished278 पृष्ठ

पृष्ठ 121, कुल 278 में से

संदर्भ में पढ़ें
पृष्ठ 121

वस्त्रादि-युक्तिः । ८१ अष्टलोह-समुद्भूतः सर्वेषामुपयुज्यते । य उक्तो दर्पणः सर्व्व स्त्रैविध्यं नोपयुज्यते (†) ॥ १० ॥ दैवात्काल-विशेषाद्वा दैव-मानुष-राक्षसाः । दैवेषु मनोज्ञत्वं सुखादिकमिहेष्यते ॥ ११ ॥ मानुषे सह(साह) सम्मानं सुखादिरुपलभ्यते । दैवे सर्व्वार्थ-संसिद्धिर्मानुषे सुखसम्पदः ॥ १२ ॥ राक्षसे विपदः सर्व्वा स्त्रयाणां हि गुणत्रयम् । देवाराधनतो दैवं विलासे मानुषं मतम् ॥ १३ ॥ संग्रामे राक्षसं पश्येत् इति भोजस्य सम्मतम् । वस्त्रं चतुर्विधं प्रोक्तं श्वेत-रक्तन्तथैव च ॥ १४ ॥ पीतकृष्णमिति ब्रह्म-क्षत्र-विट्-शूद्र जन्मनाम् । श्वेतम्बाप्यथवा चित्रं सर्वेषान्तु प्रशस्यते ॥ १५ ॥ ‘भोजस्तु’ जाङ्गलादीनां त्रिविध

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक) · पृष्ठ 121, कुल 278 में से · BharatKosha