युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 118, कुल 278 में से
संदर्भ में पढ़ें७८ युक्तिकल्पतरौ— अथ चषकोद्देशः । यत्पानपात्रं भूपानां तज्ज्ञेयं चषकं बुधैः । कानकं राजतं चैव स्फाटिकं काचमेव च ❊ ॥ ८६ ॥ वृत्तं ख(सु)राष्ट्र-दिक्कोणं चतुर्णां पृथिवीभुजाम् । इत्यन्यत् सम्मतं तेषां निर्णयः पाठ-सम्मतः ॥ ख-मुष्टि-सम्मितं रत्नैः चतुर्व्वर्णैः समन्वितम् ॥ ८७ ॥ मौक्तिकं (१) वाथ फालम्बा सर्व्वेषामेव युज्यते । काष्ठजं धातुजं शैलं जाङ्गलादि-महीभुजाम् ॥ ८८ ॥ ‘न (†) त्वन्यत्सम्मतं तेषां निर्णयः पाठ-सम्मतः । स्व मुष्टिसम्मितं रत्नं चतुर्व्वर्णैः समन्वितम्’ ॥ ८९ ॥ यदन्यत्तोय-पानादि-पात्रं पृथ्वोभुजाम्भवेत् । एवं तत्रापि नियम इति भोजस्य निश्चयः ॥ ९० ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ चषकोद्देशः । अथ प्रसाधनी । प्रसाधनी दिङ्नव-नाग-सप्त, सङ्ख्याभिरुक्ताङ्गुलीभिः क्रमेण । चतुर्विधानां पृथिवी-पतीनां ; सम्पत्ति-सौभाग्य-यशः समृद्धिदा ॥ ९१ ॥
(१) मार्त्तिकं इति इति (क) पुस्तक पाठः ।
❊ काचपात्रवृत्तन्तु भारत-रामायण-स्मृति-पुराण-कादम्वर्य्यादौ दृश्यते । † “न त्वन्यदित्यारभ्य-समन्वितम्” इत्यन्त एकः श्लोकः (क) (ग) पुस्तकेऽधिकः पठितः इति मन्ये ।