भारतकोश
युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा

DevanagariHindipublished278 पृष्ठ

पृष्ठ 112, कुल 278 में से

संदर्भ में पढ़ें
पृष्ठ 112

७२ युक्तिकल्पतरौ— निष्पताक ध्वजोद्देशः प्रोक्तोऽयं भोज-भूभुजा । एतद्दिष्टस्य मतिमान् चिरं सुखमवाप्नुयात् ॥ ३१ ॥ यो दम्भादथवाऽज्ञानादिलङ्घयति मानवः । स विसीदति नश्येत तस्य कीर्त्तिःकुलं बलम् (ε) ॥ ३२ ॥ इति ध्वजयुक्तिः । अथोपकरण-युक्तिः । छत्र ध्वज सिंहासन यानादिभ्यो यदन्यत्स्यात् । राज्याङ्गं तदुपकरणं तस्माल्लोके विशेषास्तु ॥ ३३ ॥ तस्य [उपकरणस्य] गणना । चामरञ्चाथ भृङ्गारः चसकञ्च प्रसाधनोम् । वितानञ्चाथ शय्या च व्यजनं दर्पणाम्बरम् । एतन्नवकमुद्दिष्टं राजोपकरणाख्यया ॥ ३४ ॥ तत्र चामरोद्देशः । हस्तद्वयोन्नतः शुभ्रः सुवर्णवलि-भूषितः । हीरैरालङ्कृतो राज्ञां भव्यमाना सुखप्रदः ॥ ३५ ॥ वालचामर दैर्ध्याद्वा(त्वात्) आयामत्वं प्रकाशितम् । भव्यो भद्रो जयः श्रोलः (१०) सुख-सिद्धिश्चलः स्थिरः । वितस्त्येकैक सम्बृद्ध्या दिनेशादि-दशाभुवाम् ॥ ३६ ॥ ( ε ) कुलं मूलम् इति (ग) पुस्तक पाठः । ( १० ) शौलः इति (ग) पुस्तक पाठः ।