BharatKosha
युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

by महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री)

DevanagariHindipublished278 pages

Page 122 of 278

Read in context
Page 122

युक्तिकल्पतरौ— ये जन्तवो दक्षिण-पूर्व्वसिन्धु,— कच्छेवने वा प्रसव(र)न्ति सूक्ष्माः । शुक्लातिशुक्लं प्रसवन्ति तन्तुं ; ते ब्राह्मणाः मुख्यतमाः प्रदिष्टाः ॥ २० ॥ ये जन्तवः पश्चिम-सिन्धुकच्छे, वनेऽथवाऽनूप मही-प्रदेशे । आपीत-शुक्लं प्रसबन्ति तन्तुं ; तेऽमी विशः मुख्यतमाः प्रदिष्टाः ॥ २१ ॥ ये जन्तवः सर्व्वसमुद्रकच्छे, वनेऽथ साधारण भू-प्रदेशे । नानाकृतिन्ते प्रसवन्ति तन्तुं ; गुरुं गरिष्ठाकृतयो हि शूद्राः ॥ २२ ॥ ब्रह्म-क्षत्रिय-विट्-शूद्र-संज्ञकानि यथाक्रमम् । वस्त्राणि तेभ्यो जायन्ते यथापूर्व्वं शिवानि च ॥ २३ ॥ एकजातिभवं वस्त्रमुत्तमं संप्रचक्षते । द्विजाति-सम्भवं मध्यं त्रैजातं मध्यमं विदुः ॥ २४ ॥ चतुर्जातं हि कौषेयं कदाचिदपि नाचरेत् । चत्वारि तेषां नश्यन्ति आयुः कीर्त्तिः कुलम्बलम् ॥ २५ ॥ नानावर्णाकृतिन्वेषां शिल्पिनः कथयन्ति हि । बहुकार्पास-सूत्रोक्तं(त्यं) कार्पासमिति गद्यते ॥ २६ ॥ रूपसौक्ष्म्यादि भेदेन तस्यानेकविधो भवेत् । तद्वस्त्रं सर्वयोग्यं हि सर्वेषामिति सम्मतम् ॥ २७ ॥ वृक्षत्वक्-सम्भवं वाच्यं तज्ज्ञेयं द्विविधं पुनः । जाङ्ग्लानूपसामान्यो-द्देशो यो हि त्रिधोदितः ॥ २८ ॥ तत्र मुख्यप्र-देशे तु ये मुख्या अपि पादपाः ।