युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
युक्तिकल्पतरौ— ये जन्तवो दक्षिण-पूर्व्वसिन्धु,— कच्छेवने वा प्रसव(र)न्ति सूक्ष्माः । शुक्लातिशुक्लं प्रसवन्ति तन्तुं ; ते ब्राह्मणाः मुख्यतमाः प्रदिष्टाः ॥ २० ॥ ये जन्तवः पश्चिम-सिन्धुकच्छे, वनेऽथवाऽनूप मही-प्रदेशे । आपीत-शुक्लं प्रसबन्ति तन्तुं ; तेऽमी विशः मुख्यतमाः प्रदिष्टाः ॥ २१ ॥ ये जन्तवः सर्व्वसमुद्रकच्छे, वनेऽथ साधारण भू-प्रदेशे । नानाकृतिन्ते प्रसवन्ति तन्तुं ; गुरुं गरिष्ठाकृतयो हि शूद्राः ॥ २२ ॥ ब्रह्म-क्षत्रिय-विट्-शूद्र-संज्ञकानि यथाक्रमम् । वस्त्राणि तेभ्यो जायन्ते यथापूर्व्वं शिवानि च ॥ २३ ॥ एकजातिभवं वस्त्रमुत्तमं संप्रचक्षते । द्विजाति-सम्भवं मध्यं त्रैजातं मध्यमं विदुः ॥ २४ ॥ चतुर्जातं हि कौषेयं कदाचिदपि नाचरेत् । चत्वारि तेषां नश्यन्ति आयुः कीर्त्तिः कुलम्बलम् ॥ २५ ॥ नानावर्णाकृतिन्वेषां शिल्पिनः कथयन्ति हि । बहुकार्पास-सूत्रोक्तं(त्यं) कार्पासमिति गद्यते ॥ २६ ॥ रूपसौक्ष्म्यादि भेदेन तस्यानेकविधो भवेत् । तद्वस्त्रं सर्वयोग्यं हि सर्वेषामिति सम्मतम् ॥ २७ ॥ वृक्षत्वक्-सम्भवं वाच्यं तज्ज्ञेयं द्विविधं पुनः । जाङ्ग्लानूपसामान्यो-द्देशो यो हि त्रिधोदितः ॥ २८ ॥ तत्र मुख्यप्र-देशे तु ये मुख्या अपि पादपाः ।
वस्त्रादियुक्तिः । ८३ तस्य त्वक् सम्भवं वस्त्रं विविधानां महीभुजाम् ॥ २६ ॥ ते ब्रह्म-क्षत्रजात्यादि-भेदाज्ज्ञेयाश्चतुर्विधाः । छलनी चतुर्विधा तेषां तनुः स्थूलाः मृदुः खराः ॥ ३० ॥ चतुर्विधानां भूपानां क्रमशः संप्रकाशिताः । अत्रापि नानाकलिता ज्ञेया शिल्पि-विनिर्मिताः ॥ ३१ ॥ जन्तुलोमोद्भवं वस्त्रं लोमजं नाम कीर्त्यते । मृगादयस्तु ते ब्रह्म-क्षत्र-विट्-शूद्र संज्ञकाः ॥ ३२ ॥ सूक्ष्मरोमा सुखस्पर्शः कोमलाङ्गस्तु यद्भवेत् । ब्रह्म-जातिरयं जन्तुरस्य वस्त्रं गुणोत्तरम् ॥ ३३ ॥ स्थूलरोमा मृदुस्पर्शः क्षत्रियः सोऽपि निर्भयः । सूक्ष्मरोमा खरस्पर्शः शूद्र-सञ्जः(ङ्गः) सुखच्छिदः ॥ ३४ ॥ यथापूर्वं गुणयुता चिरसंस्थान-संस्थिताः । ब्राह्मणो मलयामेरो हिमाद्रावपि जायते ॥ ३५ ॥ क्षत्रियः पश्चिमे देशे वैश्यः पूर्वदिशिस्थितः । शूद्रः सर्वत्र जायेत प्रायसो वा युगक्रमात् ॥ ३६ ॥ एकजाति-भवं भद्रं द्वेजातं सुखसम्पदे । त्रिचतुर्जाति-सम्भूतं लोमजं न सुखावहम् ॥ ३७ ॥ इत्थं निश्चित्य यो वस्त्रं परिधातुर्महीपतेः । तस्यायुश्च कुलं वीर्यं वैपरोत्य मतोऽन्यथा ॥ ३८ ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ-(इत्युपकरणयुक्तिः) वस्त्रोद्देशः ॥ —*—
८४ युक्तिकल्पतरौ— अथालङ्कार-युक्तिः । तद्धारण-दिनमुच्यते । रेवत्यश्विधनिष्ठासु हस्तादिष्वपि पञ्चसु । गुरुशुक्रबुधस्याह्नि वस्त्रालङ्कार-धारणम् ॥ ३९ ॥ अनिष्टेष्वपि निर्दिष्टं वस्त्रालङ्कार-धारणम् । उद्वाहे राजसम्माने ब्राह्मणानाञ्च सम्मते ॥ ४० ॥ शिरस्थं मुकुटं हारः कुण्डलं चाङ्गदन्तथा । कङ्कणं वालकञ्चैव मेखलाष्टाविति क्रमात् ॥ ४१ ॥ प्रधानभूषणान्येषु यथास्वं(१)याति निश्चयः ? । पद्मरागश्च वस्त्रञ्च विजयो गोविद(२)स्तथा ॥ ४२ ॥ मुक्ता-वैदूर्य्य नीलञ्च यथा मरकतं क्रमात् । आदित्यादि-दशाजानां सर्व्व-सम्पत्ति-दायकाः ॥ ४३ ॥ सुवर्णेनापि घटना सर्वेषामुपयुज्यते । प्रधान-भूषणेष्वेव मप्रधानेन निर्णयः ॥ ४४ ॥ प्रधान-भूषणं प्रायः(३)शिरसोह्यभिधीयते । तस्य प्रधानभूतत्वा दित्याह 'भृगु नन्दनः' * ॥ ४५ ॥ सुखदा मणयः (४) शुद्धा दुःखदा दोष-शालिनः । अतो मणीनां वक्ष्यामि लक्षणानि यथाक्रमम् ॥ ४६ ॥ [ इत्यलङ्कार-धृतिनियमः ॥ ] ( १ ) यथाश्वन् तानि इति (क)—(ग) पुस्तक पाठः । ( २ ) गोविदास्तथा इति (क) पुस्तक पाठः । ( ३ ) -प्राय इतःपरं श्लोकार्द्धं (ग) पुस्तके नास्ति । ( ४ ) मुनयः इति (ग) पुस्तक पाठः ।
- भार्गवः शुक्राचार्य्यः शुक्रनीति-प्रणेतेति यावत् । तस्मिन्नपि शुक्रनीतौ विषयोऽयमस्ति ।
अलङ्कारधृतियुक्तिः । ८५ अथ वज्रलक्षणानि * । गरुड़पुराणे,— वच्मि परोक्षां रत्नानां वलो † नामाऽसुरोऽभवत् । इन्द्राद्या निर्जितास्तेन निर्जेतुं तैर्न शक्यते ॥ ४७ ॥ वरव्याजेन पशुतां याचितः ससुरैर्मखे (५) । वलो लोकापकाराय देवानां हितकाम्यया ॥ ४८ ॥ तस्य सत्व-विशुद्धस्य सुविशुद्धेन कर्मणा । कायस्यावयवाः सर्वे रत्न-वौजत्वमाप्नुयुः ॥ ४६ ॥ देवानामथयक्षाणां सिद्धानां पवनाशिनाम् । रत्न-वौजः स्वयं ग्राहः समहानभवत् तदा ॥ ५० ॥ ततः संपततां वेगाद्विमानेन विहायसा । यद्वै पपात रत्नानां वोजं क्वचन किञ्चन ॥ ५१ ॥ इत्यादि बाहुल्यन्तथा। —— अथ गणना । विष्णुधर्मोत्तरे,— वज्रं मरकतञ्चैव पद्मरागश्च मौक्तिकम् । इन्द्रनीलं महानीलं वैदूर्य्यं गन्धसंज्ञकम् () ॥ ५२ ॥ ( ५ ) ससुवै मुखे इति (क)-(ग) पुस्तक पाठः ।
- तन्त्रसारेऽन्यथास्ति,— मुक्तामाणिक्य वैदूर्य-गोभेदान् वज्रविद्रुमौ । पुष्यरागं मरकतं नीलञ्चे ति यथाक्रमम् ॥
- अग्निपुराण-शुक्रनीति-बृहत्संहिता-गरुड़पुराण-अगस्तिमंत-भावप्रकाशादिषुवज्रमुक्ता- दीनां वृत्तमस्ति । † वलीनामासुरः, तथाच मार्कण्डेयपुराणे—‘‘बलवान् बलसम्भृतः’’ इति ।
८६ युक्तिकल्पतरौ— चन्द्रकान्तं सूर्य्यकान्तं स्फाटिकं पुलकन्तथा । कर्केतं पुष्परागञ्च तथा ज्योतीरसं द्विज ! ॥ ५३ ॥ स्फाटिकं राजव(T)र्त्तञ्च तथाराजमयं शुभम् । सौगन्धिकं तथा गन्धं (ञ्च) शङ्खं ब्रह्ममयन्तथा ॥ ५४ ॥ गोमेदं रुधिराख्यञ्च तथा भल्लातकं द्विज । धूली मरकतञ्चैव तुत्थकं सीसमेव च ॥ ५५ ॥ पौलुं(तं) प्रवालकञ्चैव गिरिवज्रञ्चभास्करम् (६) । भुजङ्गममणिञ्चैव तथा वज्रं मणिः शुभः । तित्तिरञ्च (७) तथा पौत्तं(तं) भ्रामरञ्च तथोत्पलम् ॥ ५६ ॥ वज्रान्येतानि सर्वाणि धार्य्याण्येव महीभृता * । सुवर्ण-प्रतिबद्धानि जयारोग्य-समृद्धये ॥ ५७ ॥ — * — तत्रादौ पद्मराग-परीक्षा । सिंहले तु भवेद्रक्तं पद्मरागमनुत्तमम् । पीतं काल(ण)पुरोद्भूतं कुरुविन्दमिति स्मृतम् ॥ ५८ ॥ अशोकपल्लवच्छायममुं(नुं) सौगन्धिकं विदुः । तुम्बूरेच्छाययानीलं नीलगन्धि-प्रकीर्त्तितम् ॥ ५९ ॥ उत्तमं सिंहलोद्भूतं निकृष्टं तुम्बुरोद्भवम् । मध्यजं(म) मध्यमं ज्ञेयं माणिक्यं क्षेत्रभेदतः ॥ ६० ॥ ( ६ ) भार्गव, (भाङ्गुरम्) इति (ख) पुस्तक पाठः । ( ७ ) तित्तिभञ्चेति (ख) पुस्तक पाठः ।
- “द्विपेन्द्रजीमूतवराहशङ्खमतस्या हि शुक्त्युद्भव-वेणुजानि मुक्ताफलानि”... इति मल्लिनाथः ॥
अलङ्कारधृतियुक्तिः । ८७ तथा च,— बन्धूक गुञ्जो सकलेन्द्रगोप, जवासनासृक्समवर्णशोभा । भ्राजिष्णवो दाड़िम-वौजवर्णा ; स्तथापरे किंशुकपुष्पभासाः ॥ ६१ ॥ सिन्दूरपद्मोत्पलकुङ्कुमानां, लाक्षारसस्यापि समानवर्णाः । सान्द्रे निरागे प्रभया स्वयैव ; भान्ति खलक्ष्मग्ना स्फुटमध्यशोभाः ॥ ६२ ॥ भानोः सुभासा मनू(८) बोधयोग, मासाद्यरश्मि-प्रकरेण दूरं ; पार्श्वानि सर्व्वानुप रञ्जयन्ति ; गुणोपपन्नाः स्फटिक प्रसूताः ॥ ६३ ॥ कुसुम्भनीलद्युति-रागमिश्राः, प्रत्यग्ररक्ताम्बर(स) तुल्यभासः । तथापरे रुत्तर-कण्टकारी ; पुष्पाचिषो हिङ्गुलकत्विषोऽन
८८ युक्तिकल्पतरौ— आनीलरक्तोत्पल-चारु भासः ; सौगन्धिकाख्या मणयो (६) भवन्ति ॥ ६६ ॥ यो मन्दराजः कुरुविन्दजेषु, स एव जातः स्फटिकोद्भवेषु । निरर्चिषोऽन्तर्बहुलो भवन्ति ; प्रभाव-वन्तो हि न तत् समानाः ॥ ६७ ॥ येतु वारण-गङ्गायां जायन्ते कुरुविन्दकाः । पद्मरागा घनं रागं बिभ्राणाः स्वस्फुटार्चिषः ॥ ६८ ॥ वर्णानुयायिनस्तेषां मभ्रं(द्र) देशास्तथापरे । जायन्ते यत्र ये केचित् मूल्यलेशमवाप्नुयुः (१०) ॥ ६६ ॥ तथैव स्फाटिकोत्यानां देशे तुम्बु रु संज्ञके । समरागाः प्रजायन्ते तेषान्तु कथितन्त्विदम् ॥ ७० ॥ तथा च,— माणिक्यस्य प्रवक्ष्यामि यथाजाति-चतुष्टयम् । ब्रह्म-क्षत्रिय-वैश्याश्च शूद्रश्चाथ यथाक्रमम् ॥ ७१ ॥ रक्तश्वेतो भवेद्विप्रस्ततिरक्तश्च क्षत्रियः । रक्तपीतो भवेद्वैश्यो रक्तनीलस्तथान्यजः ७२ ॥ पद्मरागो भवेद्विप्रः कुरुविन्दस्तु वाहुजः । सौगन्धिको भवेद्वैश्यः मांस-खण्डस्तथान्यजः ॥ ७३ ॥ शोणपद्म-समाकारः खदिराङ्गार-सप्रभः । पद्मरागो द्विजः प्रोक्तः छाया भेदेन सर्वदा ॥ ७४ ॥ गुञ्जा-सिन्दुर-बन्धूक-नागरङ्ग-समप्रभः । दाड़िमी-कुसुमाभासः कुरुविन्दस्तु वाहुजः ॥ ७५ ॥
(६) मलयो भवन्ति इति (ग) पुस्तक पाठः । (१०) समयाप्नुयुः इति (क)-(ग) पुस्तक पाठः ।
वज्रादियुक्तिः । ८१ हिङ्गलाशोक-पुष्पाभ मीषत्पीतन्तु लोहितम् । जपालाक्तारस-प्रायं वैश्यं सौगन्धिकं विदुः ॥ ७६ ॥ आरक्त-कान्तिहीनश्च चिक्रणश्च विशेषतः । मांसखण्डसमाभासोऽन्त्यजः पापनाशनः ॥ ७७ ॥ मांसखण्डस्तु नीलगन्धेः संज्ञा * । ---------------- ०० ---------------- अथ दोषाः [तेषाम्वज्रादीनाम् ] । माणिक्यस्य समाख्याता अष्टौ दोषा मुनीश्वरैः । विच्छायञ्च वि(द्वि)रूपञ्च सम्भेदः कर्करन्तथा ॥ ७८ ॥ अशोभनं कोकिलञ्च जलं धूम्राभिधञ्च वै । गुणाश्चत्वार आख्याताश्छायाः षोडशकीर्त्तिताः ॥ ७९ ॥ छायास्तु पूर्वोक्ता एव ग्राह्याः । छाया दितयसम्बन्धाद् द्विच्छायं बन्धुनाशनम् । द्विरूपं द्विपदन्तेन माणिक्येन पराभवः ॥ ८० ॥ सम्भेदो भिन्नमित्युक्तं शस्त्रघात-विधायकाः । कर्करं कर्करायुक्तं पशुबन्धु-विनाशकृत् ॥ ८१ ॥ दुग्धेनैव समालिप्तं लम्बनौ पुटमुच्यते । अशोभनं समुद्दिष्टं माणिक्यं बहुदुःखकृत् ॥ ८२ ॥ मधु-विन्दु-समच्छायं कोकिलं परिकीर्त्तितम् । आयुर्लक्ष्मीं यशो हन्ति सदोषं तनुधारयेत् (१४) ॥ ८३ ॥ रागहीनं जलं प्रोक्तं धनधान्यापवादकृत् । धूम्रं धूम्रसमाकारं वैद्युतं भयमावहेत् ॥ ८४ ॥
( १४ ) तनूराधयेत् (वाधयेत्)) इति (क)-(ग) पुस्तक पाठः ।
- मांसखण्डरूपत्वात्तस्य नीलगन्धे मांसखण्ड इत्यभिधानम् । १२
८० युक्तिकल्पतरौ— तथा,— शोभाद्वितयवन्तो ये मणयः च्छित्ति-कारकाः (१५) । उभयत्र पदं येषां तेन च स्यात् पराभवः ॥ ८५ ॥ भिन्नेन युद्धे मृत्युः स्यात्कर्करं धन-नाशकृत् । दुग्धेनैव समालिप्तः पुटके यस्तु सम्भवेत् ॥ ८६ ॥ दुःखकृत्स समाख्यातो न नृपैः रक्षणीयकः । मधुविन्दु-समा शोभा कोकिलानां प्रकीर्त्तिताः ॥ ८७ ॥ तेषाञ्च बहुभेदाः स्युः न ते धार्य्याः कदाचन ॥ ८८ ॥ अथ गुणाः [तेषाञ्चवज्रादीनाम्] । गुरुत्वं स्निग्धतां चैव वैमल्य(न्य)मतिरक्तता । वर्णादिकं गुरुत्वञ्च स्निग्धता च तथाऽच्छता ॥ अर्चिष्मत्तामहत्ता च मणीनां गुणसंग्रहः ॥ ८६ ॥ अथ फलम् । ये कर्कराः छिद्रमयोपदिग्धाः, प्रभाविमुक्ताः परुषा विवर्णाः । न ते प्रशस्ता मणयो भवन्ति ; समासतो जातिगुणैः समस्तैः ॥ ९० ॥ दोषोपसृष्टं मणिमप्रबोधा, विभर्त्ति यः कश्चन कश्चिदेकम् । तं(तद्) बन्धुदुःखाय सबन्धुवित्त- नाशादयो दोष-गुणा भजन्ते ॥ ६१ ॥ सपत्न-मध्ये हि कृताधिवासम्, प्रमादवृत्तावपि वर्त्तमानम् ।
( १५ ) क्षतिकारकाः इति (क)-(ग) पुस्तक पाठः ।
वज्रादियुक्तिः । ८१ न पद्मरागस्य महागुणस्य ; भर्त्तारमापत् समुपैति काचित् ॥ ६२ ॥ दोषोपसर्ग-प्रभवाश्च ये ते, नोपद्रवास्तं समभिद्रवन्ति । गुणैः समृद्धैः सकलैरुपेतम् ; यः पद्मरागं प्रयतो विभर्त्ति ॥ ६३ ॥ वालार्क-करसंस्पर्शाद् यः शिखां लोहिताम्बमेत् (१६) । रञ्जयेदाश्रमञ्चापि स महा गुण उच्यते ॥ ६४ ॥ दुग्धे शतगुणे क्षिप्ता रञ्जयेद् स समन्ततः । वमेच्छिखां लोहिताम्बा पद्मरागः स उत्तमः ॥ ६५ ॥ अन्धकारे महाघोरे यो न्यस्तः सन् महामणिः । प्रकाशयति सूर्याभः स श्रेष्ठः पद्मरागकः ॥ ६६ ॥ पद्मकोषे तु यन्न्यस्तं विकाशयति तत्क्षणात् । पद्मरागवरो ह्येषः देवानामपि दुर्लभः ॥ ६७ ॥ सर्वारिष्ट-प्रशमनाः सर्व्वसम्पत्ति-दायकाः । चत्वारस्तु मयोद्दिष्टा गुणिनश्च यथोत्तरम् ॥ ६८ ॥ यो मणिर्द्दृश्यते दूराद् ज्वलदग्निसमच्छविः । वंश-कान्तिः स विज्ञेयः सर्व्वसम्पत्ति-दायकः ॥ ६६ ॥ पञ्चसप्त-नव विंशतिः राग-सकलः खलु (स्वर्णं) वस्त्रे । वर्ज्जयेद्धमति वा करजालं उत्तरोत्तर-महागुणिनस्ते ॥ १०० ॥ नीलौरसं दुग्धरसं जलञ्च, ये रञ्जयन्ति द्विशतं प्रमाणम् । ते ते यथा पूर्व्वमति प्रशस्ताः ; सौभाग्यसम्पत्ति-विधान-दायकाः ॥ १ ॥ ( १६ ) लोहिताम्बसेत् (च्छुसेत्) इति (क) पुस्तक पाठः ।
९२ युक्तिकल्पतरौ— गुञ्जाफल-प्रमाणन्तु दशसप्तद्विगुञ्जकान् । पद्मरागस्तु नयति यथापूर्वं महागुणः ॥ २ ॥ क्रोष्टुकोण फलाकारान् द्वादशाष्टादिगुञ्जकान् । . पद्मरागस्तु नयति यथापूर्वं महागुणः * ॥ ३ ॥ बदरीफल तुल्यो यः सुर दिग्-वसु-मासकः । धात्रीफलञ्च त्रिंशच्च विंशति-द्वाष्ट-मासकः ॥ ४ ॥ तथाक्षफल तुल्यो यः वह्निपञ्चैक मासकः । ताम्बुलफलमानो यश्चतुस्त्रि-दिक-तोलकः ॥ ५ ॥ विल्वी(ल्बो)फलसमाकार-वसु-षट्दश-तोलकः । अतःपरं प्रमाणेन मानेन च न लक्ष्य(भ्य)ते ॥ ६ ॥ यदि लब्धे(भ्ये)त पुण्येन तदा सिद्धिमवाप्नुयात् । केचिच्चारुतराः सन्ति जात्यानां प्रतिरूपकाः ॥ ७ ॥ विजातयः प्रयत्नेन विद्वांस्तान् मूल(स)माहरेत् (१८) ॥८॥ कोङ्कनकाः (१९) सिंहलदेशोत्थ-मुक्तमालीयाः । श्रीपर्णीकाश्च सदृशा विजातयः पद्मरागाणाम् ॥ ६ ॥ तुषोपसञ्जाङ्गल(२०)माभिधानम्, मणिः स्वभावादपि तुम्बुरुत्थः। कार्णात्तथा सिंहल-देशजातम् ; मुक्ताभिधानं नभसः स्वभावात् ॥ १० ॥ श्रीपर्णीकं दीप्ति-निराकृतित्वा, द्विजाति-लिङ्गाश्रयभेद एषः ॥ ११ ॥ (१८) -स्तां नूनसमाहरेत् इति (क) पुस्तक पाठः । (१९) काङ्कनका इति (क) पुस्तक पाठः । (२०) तुषोपमर्द्धाङ्गल- इति (क)-(ग) पुस्तक पाठः ।
वज्रादियुक्तिः । ८३ तथाच,—स्नेहप्रदेहो मृदुतालघुत्वं, विजाति-लिङ्गं खलु सार्व्वजन्यम् । यः श्यामिकां पुष्यति पद्মরাगो ; यो वा तुषाणां इव चूर्ण-मध्यः ॥ १२ ॥ स्नेह-प्रदिग्धो नच यो विभाति, यो वा प्रमृज्यं(ह्यं) प्रजहाति दोषम् । आक्रान्त मूर्द्धा च तथाङ्गुलौभ्याम् ; यः कालिकां पार्श्वगता (ं) विभर्त्ति ॥ १३ ॥ संप्राप्यतां (२१) चोपपथं खवृत्तम्, विभर्त्ति यः सर्व्वगुणामतीव । तुल्य प्रमाणस्य च तुल्य जाति ; र्यो वा गुरुत्वेन भवेन्न तुल्यः ॥ १४ ॥ प्राप्यापि नानाकरदेशजातम्, ज्ञात्वा बुधो जाति गुणेन लब्धेत् ॥ १५ ॥ अप्रणश्यति सन्देहे शिलायां परिघर्षयेत् । घृष्टो योत्यन्तशोभावान् गरिमानं न मुञ्चति ॥ १६ ॥ स ज्ञेयः शुद्धजातिस्तु ज्ञेयाश्चान्ये विजातयः । स्व-जातक-संमुखेन विलिखेद्वा परस्परम् ॥ १७ ॥ वज्रं वा कुरुविन्दं वा विमुच्यान्योन्य केनचित् । न शक्यं लेखनं कर्त्तुं पद्मरागेन्द्र-नीलयोः ॥ १८ ॥ जातस्य सर्व्वेऽपि मणेर्न जातु, विजातयः कान्ति-समान-वर्णाः । तथापि नाना करणार्थमेवम् ; भेद-प्रकारः परमः प्रदिष्टः ॥ १६ ॥ (२१) प्राप्यचाक्षोपि इति (क)-(ग) पुस्तक पाठः
८४ युक्तिकल्पतरौ— गुणोपपन्नेन सहावरुद्धो, मणित्वधार्य्यो विगुणेन जात्यम् । सुखं न कुर्य्यात् अपि कौस्तुभेन (१) ; विद्वान् विजातिं विभृयात् कदाचित् (२) ॥ २० ॥ चण्डाल एकोऽपि यथा विजातौन्, समेत्य भूरीन् अपहन्ति यत्नात् । तथा मणीन् भूरि गुणोपपन्नान् ; शक्नोति विद्रावयितुं विजातम् ॥ २१ ॥ —*— अथ वज्रादीनां मूल्यम् । बालार्काभिमुखं कृत्वा दर्पणे धारयेत् मणीन् । तत्र कान्तिविभागेन छायाभागं विनिर्दिशेत् ॥ २२ ॥ वज्रस्य यत् तण्डुलसंख्ययोक्तम्, मूल्यं समुन्मापित गौरवस्य । तत् पद्मरागस्य तृणान्वितस्य ; स्यान्माषकाख्या तुलितस्य मूल्यम् ॥ २३ ॥ यन्मूल्यं पद्मरागस्य सगुणस्य प्रकीर्त्तितम् । तावन्मूल्यं तथा शुद्धे कुरुविन्दे विधीयते (३) ॥ २४ ॥ सगुणे कुरुविन्दे च यावन्मूल्यं प्रकीर्त्तितम् । तावन्मूल्य-चतुर्थांशं हीनं स्याद्वै सुगन्धिके ॥ २५ ॥ ( १ ) न कौस्तुभे नापि सहावरुद्धम् इति (ग) पुस्तक पाठः । ( २ ) विद्वान् विजातिं न भृयादु घस्तं इति (क) पुस्तक पाठः । ( ३ ( तथाशुद्धैः कुरुविन्दैः इति (ख) पुस्तक पाठः ।
पद्मरागयुक्तिः । १५ यावन्मूल्यं समाख्यातं वैश्यवर्णे च सूरिभिः । तावन्मूल्यं चतुर्थांशं हीयते शूद्रजन्मनि ॥ २६ ॥ पद्मरागः पलं यस्तु धत्ते लाक्षारस-प्रभः । कार्षापण-सहस्राणि त्रिंशन्मूल्यं लभेत सः ॥ २७ ॥ इन्द्रगोपक संकाशः कर्षत्रय-धृतो-मणिः । द्वाविंशतिं सहस्राणां तस्य मूल्यं विनिर्दिशेत् ॥ २८ ॥ एकोनोनूयते यस्तु जवाकुसुम-सन्निभः । कार्षापण-सहस्राणि तस्य मूल्यं चतुर्दश ॥ २६ ॥ बालादित्य द्युति-निभं कर्षं यस्तु प्रतुल्यते । कार्षापण-शतानान्तु मूल्यं सद्भिः प्रकीर्त्तितम् ॥ ३० ॥ यस्तु दाड़िम-पुष्पाभः कर्षार्द्धेन तु सन्मितः । कार्षापण शतानान्तु विंशतिं मूल्यमादिशेत् ॥ ३१ ॥ चत्वारो माषका यस्तु रक्तोत्पल-दल-प्रभः । मूल्यं तस्य विधातव्यं सूरिभिः शत-पञ्चकम् ॥ ३२ ॥ द्विमाषको यस्तु गुणैः सर्वैरेव समन्वितः । तस्य मूल्यं विधातव्यं द्विशतं तत्त्ववेदिभिः ॥ ३३ ॥ माषकैक-मितो यस्तु पद्मरागो गुणान्वितः । शतैक-सम्मितं वाच्यं मूल्यं रत्न-विचक्षणैः ॥ ३४ ॥ अतोऽन्यून-प्रमाणास्तु(न्तु) पद्मरागा गुणोत्तराः । स्वर्ण-द्विगुण मूल्येन मूल्यं तेषां प्रकल्पयेत् ॥ ३५ ॥ कार्षापणः समाख्यातः पुराणद्वय-सम्मितः । अन्ये कुसुम्भ-पानीय-मञ्जिष्ठोदक-सन्निभाः ॥ ३६ ॥ काषाया इति विख्याताः स्फटिक-प्रभवाश्च ते । तेषां दोषान् गुणान् वापि पद्मराग-वदादिशेत् ॥ ३७ ॥ मूल्यमल्पन्तु विज्ञेयं कारणेऽल्पफलन्तथा ।
८६ युक्तिकल्पतरौ— ब्रह्म-क्षत्रिय-वैश्यान्त्याश्चतुर्द्धा ये प्रकीर्त्तिताः ॥ ३८ ॥ चतुर्विधैर्नृपतिभिर्धार्याः सम्पत्ति-हेतवे । अतोऽन्यथाधृतः कुर्य्याद्रोगशोक-भयक्षयम् ॥ ३९ ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ पद्मराग-परीक्षा ॥ अथ हीरकपरीक्षा * । गारुड़े,— हेम-मातङ्ग-सौराष्ट्राः पौण्ड्र-कालिङ्ग-कौशलाः । वेण्वा(ल्वा) तटाः स सौवीरा वज्रस्याष्टौ विहारकाः ॥ ४०॥ आताम्रा हिमशैलजाः शशिनिभा वेण्वातटीया मताः, सौवीरे तु सिताश्च मेघसदृशास्ताम्राश्च सौराष्ट्रजाः । कालिङ्गाः कनकावदातरुचिराः पीत-प्रभाः कौशले ; श्यामाः पुण्ड्रभवा मतङ्गविषये नात्यन्त-पोतप्रभाः ॥ ४१ ॥ कृतयुगे कलियुगे कौशले वज्र-सम्भवः हिमालये मतङ्गाद्रौ त्रेतायां कुलिशोद्भवः ॥ ४२ ॥ पौण्ड्रे च सुराष्ट्रे च द्वापरे परि-सम्भवः । वैरागरे च सौवीरे कलौ हीरक-सम्भवः ॥ ४३ ॥ पृथिव्यपो-वियत्तेजो मरुच्चैवेति पञ्चभिः । पञ्चभूतात्मकं वज्रं तैजसं प्रायसो भवेत् ॥ ४४ ॥ महापुराणं खदनं सुशोभं पार्थिवं विदुः । स्निग्धं मृदु-घनं स्वच्छमाप्यमाहुः परं बुधाः ॥ ४५ ॥
- वज्रं (हीरक)-वृत्तन्तु गरुड़पुराण-वामनपुराण-भागवत-मत्स्यपुराण-राजनिर्घण्ट- भावप्रकाशादिषु द्रष्टव्यम् ।
वज्रादियुक्तिः । ९७ विमलं शुचितीक्ष्णाग्रं वैयतं वज्रमुच्यते ॥ सुतीक्ष्णं दीप्तिमत् स्वच्छं तेजसं वज्रमुच्यते ॥ ४६ ॥ लघुतीक्ष्णः खरस्पर्शो वायव्यः परिकथ्यते । ब्रह्म-क्षत्रिय-विट्-शूद्रा भेदास्ते तु चतुर्विधाः ॥ ४७ ॥ श्वेता रक्ता तथा नीला कृष्णा छाया चतुर्विधाः । ब्रह्म-क्षत्रिय-विट्-शूद्र-जातेर्वज्रस्य विक्रमात् ॥ ४८ ॥ गारुड़े,— विप्रस्य शङ्ख-कुमुदस्फटिकावदातः, स्यात्क्षत्रियस्य शशवज्रविलोचनाभः । वैश्यस्य कान्त-कदली-दलसन्निकाशः ; शूद्रस्य धौत-करवाल-समानदीप्तिः ॥ ४६ ॥ हरित-सित-पीत-पिङ्ग-श्यामा-ताम्राः स्वभावतोरुचिराः । हरिवरुण-शक्र हुतवह-पितृपति मरुतां स्वका वर्णाः ॥ ५० ॥ द्वौ वज्रवणौँ पृथिवीपतीनाम्, सद्भिः प्रतिष्ठौ नतु सार्वजन्यौ । यः स्याज्जवाविद्रुम-भङ्गशोणो ; यो वा हरिद्रा-रससन्निकाशः ॥ ५१ ॥ ईशत्वात् सर्ववर्णानां गुणवत् सार्ववर्णिकम् । कामतो धारयेद् राजा नत्वन्योन्यं कथञ्चन ॥ ५२ ॥ अथ गुणाः—[ गारुड़े ] । कोट्यः पाश्र्वानि धाराश्च षडष्टौ द्वादशेति च । उत्तुङ्ग सम तीक्ष्णाग्रा वज्रस्याकरजा गुणाः ॥ ५३ ॥ षट्कोणकं लघुत्वञ्च समाष्टादश(ल)ता तथा । तीक्ष्णाग्रता निर्मलत्व मेते पञ्चगुणा मताः ॥ ५४ ॥ १३
Digitized By Siddhanta eGangotri Gyaan Kosha ६८ युक्तिकल्पतरौ— अत्यर्थं लघुवर्णतश्च गुणवत् पार्श्वेषु सम्यक्स्थितम्, रेखाविन्दुकलङ्क-काकपदक-त्रासादिभिर्वर्जितम् । लोकेऽस्मिन् परमाणुमात्रमपि यद् वज्रं क्वचिद् दृश्यते ; तस्मिन्देवसमाश्रयो ह्यवितथं तीक्ष्णाग्रधारं यदि ॥ ५५ ॥ षट्कोटि-शुद्धममलं स्फुटतीक्ष्णधारम्, वर्णान्वितं लघुसुपार्श्वमपेत-दोषम् । इन्द्रायुधांशु-विसृति छुरितान्तरीक्षम् ; एवंविधं भुवि भवेत् सुलभं न वज्रम् ॥ ५६ ॥ प्रसुते काण्डसम्भिन्नं शक्रायुध-समां शिखाम् । अत्यन्त लघुतीक्ष्णाग्रं तद्वज्रं वज्र-धारणम् ॥ ५७ ॥ विष्णुधर्मोत्तरे, — ( अग्निपुराणे च ) । अम्भस्तरति यद्वज्रं अभेद्यं विमलञ्च यत् । सत्कोणं शक्रचापाभं लघुचार्कनिभं शुभम् ॥ तथा संशुद्ध षट्कोणं लघु भार्गव-नन्दन ! ॥ ५८ ॥ प्रभा च शक्रचापाभा यस्यार्काभिमुखो भवेत् । तद्वज्रं धारयेद्राजा सर्वान् जयति शात्रवान् ॥ ५९ ॥ तथा च,— यस्तु वारि-भवो नाम दुर्वापत्र-जलच्छविः । सुवर्णमात्रं तुलया (१) तद्वज्रं कोटि-भाजनम् ॥ ६० ॥ ऊर्द्धं निवारयेद्वज्रमधः सर्पान्निवारयेत् । रात्रौ निवारयेद्भूतान् हीरकस्यैव धारणात् ॥ ६१ ॥ तीक्ष्णाग्रं विमलमपेत सर्वदोषम्, धत्ते यः प्रयततनुः सदैव वज्रम् । ( १ ) गणयेत् इति (क) पुस्तक पाठः । CC-0. Gurukul Kangri Collection, Haridwar.
वज्रादि-युक्तिः । ९९ वृद्धिस्तं प्रतिदिनमेति यावदायुः ; श्रीसम्पद्युत धन-धान्य-गो-पशूनाम् ॥ ६२ ॥ व्यालवह्नि-विषव्याघ्र तस्कराद्यभयानि च । दूरादेव निवर्त्तन्ते कर्म्माण्यथर्व्वणानि च ॥ ६३ ॥ यत्तु सर्वगुणैर्युक्तं वज्रं तरति वारिणि । रत्नवर्गे समस्तेऽपि तस्य धारणमिष्यते ॥ ६४ ॥ यद्यपि विशीर्ण-कोटिः सविन्दु-रेखान्वितो विवर्णो । तदपि च धनधान्य-सुतान् करोति सेन्द्रायुधो वज्रः ॥ ६५ ॥ सौदामिनी-विस्फूरिताभिरामम्, राजा यथोक्तं कुलिशं दधानः । पराक्रमाक्रान्त-पर-प्रतापः ; समस्तसामन्त-भुवं भुनक्ति ॥ ६६ ॥ (इति गारुडे) । समस्तां पृथिवीं पाति पार्थिवस्य विधारणात् । तृप्तिर्लक्ष्मीर्यशः कीर्त्तिरायुर्वज्रस्य धारणात् ॥ ६७ ॥ उत्साहः प्रियतुष्टित्वं विप्रणाशनमेव च । तथा सम्पत्तयः सर्वा वैयेते परिधारिते (२) ॥ ६८ ॥ प्रतापः शौर्य्यमुत्साहः तैजसस्य विधारणात् । यज्ञाज्ज्ञानं तपोभिश्च यदाप्नोति तदाप्नुयात् ॥ ६९ ॥ गुणयुक्तस्य वज्रस्य विप्रजातेर्विधारणात् । जपः पराक्रमस्तस्य शत्रुनाशश्च जायते ॥ ७० ॥ गुणवत्-क्षत्रजातीनां वज्रं वसति यद्गृहे । कलाकुशलताद्रव्यं प्रज्ञा क्षेमं यशो महत् ॥ ७१ ॥ गुणिनः परिरत्नस्य वैश्यजातेर्विधारणात् । परोपकारिता क्षेमं धन-धान्य-समृद्धयः ॥ ७२ ॥ (२) परिधारणात् इति (ख) पुस्तक पाठः ।
१०० युक्तिकल्पतरौ- गुणयुक्तस्य वज्रस्य शूद्रजातेर्विधारणात् । अन्यच्चतुर्विधं वज्रं प्रवदन्ति पुरातनाः ॥ ७३ ॥ हिमकुन्देन्दुधवलं षट्कोणाष्टदलन्तथा । तीक्ष्णं वारिभवं वज्रं घनशब्देति कान्तिमत् ॥ ७४ ॥ अन्धकारे च दीप्येत तज्ज्ञेयं वज्रधारणम् । गुणाढ्यं तीक्ष्णधारं यत् सर्प-दर्प-निवारणम् ॥ ७५ ॥ तस्य धारणेतो येन विषरोगः प्रशाम्यति । सूर्यकोटि-प्रतीकाशं चन्द्रकोटि-सुशीतलम् ॥ ७६ ॥ अन्धकार-हरं वज्रं विज्ञेयं महदुत्तमम् । तस्य धारणतोयेन सर्वरोगः प्रशाम्यति ॥ ७७ ॥ तप्ते दुग्धे जले तैले घृते क्षिप्तोऽपि यः परि । शीततां नावहेत् (३) सद्यः संज्ञेयः सुरदुर्लभः ॥ ७८ ॥ एषामन्यतरं लब्ध्वा नृपः सुखमवाप्नुयात् । तत्तु त्रिभुने नास्ति यन्न धारयते नृपः ॥ ७६ ॥ अथ दोषाः । मलो विन्दुस्तथा रेखा त्रासः काकपदस्तथा । एते दोषाः समाख्याताः पञ्चवज्रेषु कोविदैः ॥ ८० ॥ मले मलिनता ख्याता विन्दौ सर्वार्थ-नाशनम् । रेखायां द्रंद्रिणो भीतिस्त्रासे त्रासः क्षयः पदे ॥ ८१ ॥ मले मलिनता ख्याता रेखायां द्रंद्रिणो भयम् । कोणे व्याधि-भयं प्रोक्तं मध्ये व्याधि-भयम्भवेत् ॥ ८२ ॥ दोषेषु विन्दुरावर्त्तः परिवर्त्ती यदाकृतिः । चतुर्द्धैवं समाख्याता विन्दवो वज्र-संश्रिताः ॥ ८३ ॥ ( ३ ) नावयेत् इति (ख) पुस्तक पाठः।
वज्रादियुक्तिः । १०१ वज्रोऽथ वर्त्तुलो विन्दुरावर्त्तो मध्य-वर्त्तुलः । वज्रः परिवर्त्तु ... ... रक्त एव यवाकृतिः ॥ ८४ ॥ विन्दुरायर्धनं हन्यात् दावर्त्तो वज्रमादिशेत् । परिवर्त्ते भवेद् व्याधिर्यवे तत् फलमुच्यते ॥ ८५ ॥ श्वेतो रक्तस्तथा पीत-श्वेतश्चेति यथा मतः । रक्तवर्णे यवे ख्यातं गजाश्वस्य विनाशनम् ॥ ८६ ॥ यवे पीते कुलस्यान्तं धनमायुः सिते भवेत् । एवं दोष-गुणाः प्रोक्ताः परिविन्दोरशेषतः ॥ ८७ ॥ सव्यवक्राः शुभा रेखा रामवक्रा भयङ्करो । छेद भ्रान्तिकरो छेदा रेखाशस्त्र-भयप्रदा ॥ ८८ ॥ पञ्चद्वय प्रदृश्याया छेदा सा परिकीर्त्तिता । रेखा बन्धु-विनाशाय जायते वज्रसंश्रया ॥ ८६ ॥ सव्या चैवोपसव्या च छिन्ना रेखोर्द्धगामिनौ ॥ सव्या चात्मभिदा ज्ञेया अपसव्या धनच्छिदा ॥ ९० ॥ ऊर्द्धा चासंप्रहारायच्छिन्ना छेदाय वन्धुभिः । अङ्कः काकपदाकारो दृश्यते यः पदोत्थितः ॥ ६१ ॥ स मृत्युमादिशत्याहुः(युः) धनं वा सकलं हरेत् । भग्नाग्रं भङ्गधारञ्च दलहोनञ्च वर्त्तुलम् ॥ ६२ ॥ कान्तिहोनञ्च यद्वज्रं दोषाय न गुणाय तत् । भिन्न भ्रान्ति-करन्त्रासः सत्रासं जनयेद् ध्रुवम् । अपि सर्वगुणैर्युक्तं न तादृग् धारयेद्बुधः ॥ ६३ ॥ अथ अन्यान्यपि । एकमपि यस्यसैन्यं (६) शृङ्गं विदलितमवलोक्यते विशीर्णांम्बा । गुणवदपि तन्न धार्य्यं वज्रं श्रेयोऽर्थिभिर्भवेने ॥ ६४ ॥ (६) अत्र सैन्यं इत्यधिक पाठः (ख)-(ग) पुस्तकेऽस्ति ।