युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 177, कुल 278 में से
संदर्भ में पढ़ेंस्फटिकयुक्तिः । १३७ न तत्तुल्यं हि रत्नानामथवा पापनाशनम् । संस्कृतं शिल्पिना सद्यो मूल्यं किञ्चिन्नभेत्ततः ॥ ४ ॥ तथा च,— हिमालये सिंहले च विन्ध्याटवौतटे तथा । स्फटिकं जायते चैव नानारूपं समप्रभम् ॥ ५ ॥ हिमाद्रौ चन्द्रसङ्काशं स्फटिकं तद् द्विधा भवेत् । सूर्य्यकान्तञ्च तत्रैकं चन्द्रकान्तं तथापरम् ॥ ६ ॥ सूर्य्यांश्रु-स्पर्शमात्रेण वह्निं वमति यत् क्षणात् । सूर्य्यकान्तं तदाख्यातं स्फटिकं रत्नवेदिभिः ॥ ७ ॥ पूर्णेन्दुकरसंस्पर्शात् अमृतं स्रवति क्षणात् । चन्द्रकान्तं तदाख्यातं दुर्लभं तत् कलौ युगे ॥ ८ ॥ अशोक पल्लवच्छायं दाड़िमीबीज सन्निभम् । विन्ध्याटवौतटे देशे जायते मन्दकान्तिकम् ॥ ९ ॥ सिंहले जायते कृष्णामाकरे गन्धशैलके । पद्मरागभवे स्थाने द्विविधं (१) स्फटिकं भवेत् ॥ १० ॥ अत्यन्तनिर्मलं स्वच्छं स्रवतीव जलं शुचि । ज्योतिर्ज्वलनमाश्लिष्टं मुक्ताज्योतीरसं द्विज ॥ ११ ॥ तदेव लोहिताकारं राजावर्त्तमुदाहृतम् । आनीलं तत्तु पाषाणं प्रोक्तं राजमयं शुभम् ॥ १२ ॥ ब्रह्मसूत्रमयं यत्तु प्रोक्तं ब्रह्ममयं द्विज ॥ १३ ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ स्फटिकपरीक्षा । ( १ ) विविधम् इति (क) पुस्तक पाठः । १८