युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 23, कुल 278 में से
संदर्भ में पढ़ें( ११० ) सारात् कल्पतरुरयं पश्चादङ्कित इति । कामन्दकस्तु सर्वथा कौटि- लीयमर्थशास्त्रं स्मारं स्मारं नीतिसारमिमं लिलेख । प्राचीनलेखमालायाम्—४६ लेखः । (४८)—मालवमहीपाल- प्रशस्तिः । प्रथमे भागे १६७—१६८ पृष्ठे । (१) जातस्तस्माद्वैरिसिंहोऽन्य नाम्ना, लोको ब्रूते वज्रट स्वामिनं यम् । शत्रोर्वर्गं धारयासेर्निहत्य ; श्रीमद्वारा सूचिता येन राज्ञा ॥ (२) तस्यानुजो निर्जित हूनराजः, श्रीसिन्धुराजो विजयार्जितश्रीः । श्रीभोजराजोऽजनि येन रत्नम् ; नरोत्तमाकल्प ( कम्प ? ) रुद्वितीयम् ॥ (३) साधितं विहितं दत्तं ज्ञातं तद् यन्न केनचित् । किमन्यत् कविराजस्य श्रीभोजस्य प्रशस्यते ॥ ६—७ पृष्ठे, प्राचीन लेखमालायाम् ( तृतीयलेखः ) । धारानगराधिपति सुप्रसिद्ध भोज महीपतेर्वंश्यस्यार्जुनवर्मदेवस्य दानपत्रम् । परमारकुलोत्तंसः कंसजिन्महिमातृपः । श्रीभोजदेव इत्यासीन्नासीराक्रान्त-भूतलः ॥ सम्बत् १२७२ भाद्रपद सुदि १५ बुधे । प्राचीन लेखमालायां—द्वितीय लेखः ४-५ पृष्ठे । धारानगरा- धिपतेः सुप्रसिद्धस्य * भोज नरेन्द्रस्य दानपत्रम् ।
- श्रीभोजदेवस्य अतिवृद्धप्रपितामहः कृष्णराजः, वृद्धप्रपितामहः वैरीसिंहः, प्रपितामहः सीयकदेवः, वाक्पतिराजः पितामहः, पिता च श्रीसिन्धु ( ल ) राजः । सिन्धु- राज पर्यन्तमुज्जयिन्यां राजधान्यासीत् । तथा च परिमलकवि-प्रणीतनवसाहसाङ्क- चरिते ( १।१७ )— ग