भारतकोश
युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा

DevanagariHindipublished278 पृष्ठ

पृष्ठ 41, कुल 278 में से

संदर्भ में पढ़ें
पृष्ठ 41

नीतियुक्तिः । ३ अथ तेषां परीक्षा यथा— सदाचारः कुशलधीः सर्व्वशास्त्रार्थ-पारगः । नित्यनैमित्तिकानाञ्च कार्य्याणां कारकः शुचिः ॥ १४ ॥ अपर्व्व-मैथुन-परः पितृ-देवार्च्चने रतः । गुरुभक्तो जित-क्रोधो विप्राणां हितकृत् सदा ॥ १५ ॥ दयावान् शील-सम्पन्नः सत्कुलीनो महामतिः । परदारेषु विमुखो दृढ-सङ्कल्पको द्विजः ॥ १६ ॥ अन्यैश्च वैदिकगुणै र्युक्तः कार्य्यो गुरुर्नृपैः । एतैरेव गुणै र्युक्तः पुरोधाः स्यान्महीभुजाम् ॥ १७ ॥ शान्तो विनीतः कुशलः सत्कुलीनः शुभान्वितः । शास्त्रार्थतत्त्वगोऽमात्यो भवेद् भूमिभुजामिह ॥ १८ ॥ तथा बुद्धिमतां श्रेष्ठो धार्म्मिकः शास्त्रवित्तमः । हीनश्चाप्य परोधेन * भूपमन्त्रो प्रकीर्त्तितः ॥ १९ ॥ परेङ्गितज्ञः परवाग् व्यङ्ग्यार्थस्यापि तत्त्ववित् । सदोत्पन्नमति र्धीरो दूतः स्यात् पृथिवीपतेः ॥ २० ॥ ————*———— दूतस्य बहुभेदा वच्यन्ते । नीतिशास्त्रार्थ कुशलो लेख्यालेख्य-विशारदः । बह्वर्थवक्ता चाल्पेन लेखकः स्यात् सभापटुः ॥ २१ ॥ ज्योतिःशास्त्र-विशेषज्ञः सुन्दराङ्गः सभापटुः । कुलक्रमागतः शुद्धो गणकः स्यान्महीपतेः ॥ २२ ॥

  • 'हीनश्चाप्य परोधेन' इत्यनेनौचित्यादिराहित्यं राज्ञोहितानुष्ठानपरत्वञ्च सुज्ञेयम् ।