युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 45, कुल 278 में से
संदर्भ में पढ़ेंनीतियुक्तिः । ७ मौलभूतं श्रेणीबद्धं संहतन्तु स्मृतम्बलम् । पूर्वं पूर्वं गरीयस्तु बलानां व्यसनन्तथा ॥ ४४ ॥ रथो बलं समे देशे गजस्तु विषमे बलम् । जाङ्गले बलमश्वाश्च बलं नौका जलप्लुते ॥ ४५ ॥ पदातयस्तु सर्व्वत्र बलं स्यात् पृथिवीभुजः । राज्ञा युद्धाय युज्येत यदन्यद्द्विविधं बलम् ॥ ४६ ॥ सर्व्वं पत्तिबलाधीनं तस्मात्पत्तिर्बलं बलम् ॥ ४७ ॥ अथ यानम् । चतुष्पदञ्च द्विपदं विपदञ्चबहुपादकम् । चतुर्विध मिहोद्दिष्टं यानं भूमिभुजोमतम् ॥ ४८ ॥ गजाश्वादि चतुष्पादं दोलादि द्विपदम्भवेत् । नौकाद्यं विपदं ज्ञेयं रथाद्यं बहुपादकम् ॥ ४६ ॥ व्योमयानं * विमानं वा पूर्व्वमासीन्महीभुजाम् । यथानुगुण-सम्पन्नानिता नाहुः सुखप्रदान् ॥ ५० ॥ अथ यात्रा । गुणातिशयसम्पन्नः शत्रूंयाया जिगीषया । यदि पश्चात्प्रकोपेण यदि राष्ट्रेण कण्टकाः ॥ ५१ ॥ † श्लोकार्द्धं (क)-(ख) पुस्तके नास्ति । —"विमानं हंससंयुक्तम्" मार्कण्डेयपुराणे । 'सर्व्वेभ्योऽवसरन्ददाति पुष्पक्वत्' इति परिमलं । एवमेव भारतेरामायणादौ विमान- नामास्ति । केषाञ्चिद्विदुषां नये पुष्पकविमान-व्योमयानानि एकार्थबोधकानि ।