भारतकोश
१०८ उपनिषद् (साधना खण्ड - भाग ३)

१०८ उपनिषद् (साधना खण्ड - भाग ३)

108 Upanishads Part 3 - Sadhana Khand

पण्डित श्रीराम शर्मा आचार्य द्वारा

स्रोत: संस्कृति संस्थान बरेली · संस्कृति संस्थान बरेली (उद्गम)

DevanagariSanskritpublished572 पृष्ठ

पृष्ठ 133, कुल 572 में से

संदर्भ में पढ़ें
पृष्ठ 133

महोपनिषत् ] [ १२५ यथा कटकशब्दार्थ पृथग्भावो न काञ्चनात्, न हेम कटकात्तद्वज्जगच्छब्दार्थता परा ॥४६ तेनेयमिन्द्रजालश्रीर्जगती प्रवितन्यते । द्रष्टुर्द्द श्यस्य सत्ताऽन्तर्बन्ध इत्यभिधीयते ॥४७ द्रष्टा दृश्यवशाद्बद्धो दृश्याभावे विमुच्यते । जगत्त्वमहमित्यादिसर्गात्मा दृश्यमुच्यते ॥४८ मनसैवेन्द्रजालश्रीर्जगती प्रवितन्यते । यावदेतत् सम्भवति तावन्मोक्षो न विद्यते ॥४६ ब्रह्मणा तन्यते विश्वं मनसैव स्वयंभुवा । मनोमयमतो विश्वं वन्नाम परिदृश्यते ॥५० न बाह्ये नापि हृदये सद्रूपं विद्यते मनः । यदर्थप्रतिभानं तन्मन इत्यभिधीयते ॥५१ संकल्पनं मनो विद्धि संकल्पस्तन्न विद्यते । यत्र संकल्पनं तन्न मनोऽस्तीत्यवगम्यताम् ॥५२ संकल्पनमनसी भिन्ने न कदाचन केन चित् । संकल्पजाते गलिते स्वरूपमवशिष्यते ॥५३ अह त्वं जगदित्यादौ प्रशान्ते दृश्यसंभ्रमे । स्यात्तादृशी केवलता दृश्ये सत्तामुपागते ॥५४ महाप्रलयसम्पत्तौ ह्यसत्ताँ समुपागथे । अशेषदृश्ये सर्गादौ शान्तमेवावशिष्यते ॥५५ अस्त्यनस्तमितो भास्वानजो देवो निरामयः । सर्वदा सर्वकृत् सर्वः परमात्मेत्युदाहृतः ॥५६ यतो वाचो निवर्तन्ते यो भक्तैरवगम्यते । यस्य चात्मादिकाः संज्ञाः कल्पिता न स्वभावतः ॥५७ परायों को अपना देखने वाली सर्वात्ममयी वेदना का जब आविर्भाव होता है तब दिशा और काल के रूप में विस्मृत हुआ विश्व