१०८ उपनिषद् (साधना खण्ड - भाग ३)
108 Upanishads Part 3 - Sadhana Khand
पण्डित श्रीराम शर्मा आचार्य द्वारा
स्रोत: संस्कृति संस्थान बरेली · संस्कृति संस्थान बरेली (उद्गम)
पृष्ठ 178, कुल 572 में से
संदर्भ में पढ़ें१७० ] [ षष्ठ अध्याय है। जैसे ताँवे की कालौंच अथवा धान का छिलका प्रयत्न द्वारा पृथक किया जाता है, वैसे ही मनुष्य का मल-दोष क्रिया द्वारा ही नष्ट होना सम्भव है ॥१७६--१८६॥ ॥ पंचम अध्याय समाप्त ॥ षष्ठ अध्याय अन्तरास्थां परित्यज्य भावश्रीं भावनामयीम् । योऽसि सोऽसि जगत्यस्मिन् लीलया विहरानघ ॥१ सर्वत्राहमकर्तेति दृढभावनयाऽनया । परमामृतनाम्नी सा समतैवाशिष्यते ॥२ खेदोल्लासविलासेषु स्वात्मकर्तृतयैकया । स्वसंकल्पे क्षयं याते समतैवावशिष्यते ॥३ समताः सर्वभावेषु याऽसौ सत्यपरा स्थितिः । तस्यामवस्थितं चित्तं न भूयो जन्मभागभवेत् ॥४ अथवा सर्वकर्तृत्वमकर्तृत्वं च वै मुने । सर्वं त्यक्त्वा मनः पीत्वा योऽसि सोऽसि स्थिरो भव ॥५ शेषस्थिरसमाधानो येन त्यजसि तत्त्यज । चिन्मनः कलनाऽऽकारं प्रकाशतिमिरादिकम् ॥६ वासनां वासितारं च प्राणस्पन्दनपूर्वकम् । समूलमखिलं त्यक्त्वा व्योमसाम्यः प्रशान्तधीः ॥७ हृदयात् संपरित्यज्य सर्वां वासनापङ्क्तिकाम् । यस्तिष्ठति गतव्यग्रः स मुक्तः परमेश्वरः ॥८ दृष्टं द्रष्टव्यमखिलं भ्रान्तं भ्रान्त्या दिशो दश । युक्त्या वै चरतोऽज्ञस्य संसारो गोष्पदाकृतिः ॥६