अभिज्ञानशाकुन्तलम् (सन्दर्भदीपिका टीका व हिन्दी अनुवाद सहित)
Abhijnanashakuntalam of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Abhijnanashakuntalam with Sandarbhadipika Tika & Hindi Translation (उद्गम)
पृष्ठ 186, कुल 262 में से
संदर्भ में पढ़ें| 172 | चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम् |
|---|
कण्वः—वत्से, किमेव कातरासि।
अभिजनवतो भर्तुः श्लाघ्ये स्थिता गृहिणीपदे
विभवगुरुभिः कृत्यैरस्य प्रतिक्षणमाकुला।
तनयमचिरात्प्राचीवार्कं प्रसूय च पावनं
मम विरहजां न त्वं वत्से शुचं गणयिष्यसि॥4-21॥
शकुन्तला—(पादयोः पतित्वा) ताद, वन्दामि। (तात, वन्दे।)
कण्वः—वत्से, यदहमीहे तदस्तु ते।
शकुन्तला—(सख्यावुपेत्य) सहीओ, एध दुवे वि मं समं जेव परिस्सअध। (सख्यौ, एते द्वे अपि मां सममेव परिष्वजेथाम्।)
सख्यौ—(तथा कृत्वा) सहि, जइ कदा वि सो राएसी पच्चहिण्णाणमन्थरो भवे तदो से अत्तणो णामधेअङ्किदं अङ्गुलीअअं दंसइस्सि। (सखि, यदि कदा अपि सः राजर्षिः प्रत्यभिज्ञानमन्थरः भवेत् ततः अस्मै आत्मनः नामधेयाङ्कितम् अङ्गुरीयकं दर्शयिष्यसि।
शकुन्तला—इमिणा सन्देहेण वो कम्पिदं मे हिअअं। (अनेन सन्देहेन वां कम्पितं मे हृदयम्।)
सख्यौ—सहि, मा भाआहि। सिणेहो पावं आसङ्कदि। (सखि, मा बिभीहि। स्नेहः पापम् आशङ्कते।)
शार्ङ्गरवः—(विलोक्य) भगवन्, युगान्तरमधिरूढः सविता। तत्त्वरतां भवती।
शकुन्तला—(भूयः पितुरङ्कमाश्लिष्य) ताद, कदा णु क्खु भूओ तवोवणं पेक्खिस्सं। (तात, कदा नु खलु भूयः तपोवनं प्रेक्षिष्ये।)
कण्वः—वत्से,
भूत्वा चिराय सदिगन्तमहीसपत्नी
दौःषन्तिमप्रतिरथं तनयं प्रसूय।
अभि०॥ (4-21) अभिजनवतः [कु]लीनस्य। कूलेस्य(त्य)भिजन इत्यमरः। तात वन्दे। सख्यौ एतमागच्छतम्। द्वे अपि युवां सममेकदैव मां परिष्वजेथाः। सखि, यदि कदाचित् स राजर्षिः प्रत्यभिज्ञानमन्थरो भवेत् तदास्मै आत्मनो नामाङ्कितमङ्गुरीयकं दर्शयिष्यसि। अमुना सन्देहेन युवयोः कम्पितं मे हृदयम्। सखि, मा भैषीः। स्नेहः पापम् आशङ्कते। युगान्तरेति। युगं प्रहर इति केचित्। हस्तचतुष्टयं युगमित्यन्यः। युगं कृतादिषु, युम्मे हस्तचतुष्टये स्यादिति मेदिनी। तात, कदा नु खलु तपोवनं प्रेक्षिष्ये।
भूत्वा०॥ (4-22) चिरकालं व्याप्य सदिगन्ताया मह्याः सपत्नी भूत्वा स्वान्तं दुःषन्तस्यापत्यम्। अप्रतिरथो नास्ति प्रतिरथः, परिपन्थी योधो यस्य, तत् सन्निवेशितेति तस्मिन् पुत्रे निवेशिता धूर्भारो येन। शान्त्यै मोक्षार्थं पदमवस्थानम्॥