भारतकोश
ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

Aitareya Aranyaka Hindi

महर्षि ऐतरेय महिदास द्वारा

स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)

DevanagariHindipublished304 पृष्ठ

पृष्ठ 130, कुल 304 में से

संदर्भ में पढ़ें
पृष्ठ 130

अध्या० २ ख० ४ (१२)] ऐतरेयारण्यकम् । १२५

एतदेव व्यञ्जनादिषु शरीरत्वादिदर्शनमिन्द्रो विश्वामित्रभरद्वाजाभ्यामुपदिष्टवान् । तस्मात्स इन्द्रस्तेन शिष्यरूपेण बन्धुना सोमयागेषु सुब्रह्मण्यायामिन्द्राऽऽगच्छ हरिव आगच्छेत्येवं समाहूयते । महतेन्द्रेण महच्यामुपदिष्टत्वात्प्रशस्तमित्यर्थः ।

पुनरपि व्यञ्जनानि स्वरांश्र विभज्य तत्र रात्रिध्यानमहर्ध्यानं च विधत्ते—

तद्वा इदं बृहतीसहस्रं संपन्नं तस्य वा एतस्य बृहतीसहस्रस्य संपन्नस्य षट्त्रिंशतमक्षराणां सहस्राणि भवन्ति तावन्ति शतसंवत्सरस्याह्वां सहस्राणि भवन्ति व्यञ्जनैरेव रात्रीराप्नुवन्ति स्वरैरहानि , इति ।

विशेषविधिसंबन्धार्थं तद्वा इत्यादेः पुनः पुनरनुवादः । षट्त्रिंशदक्षरा बृहती । तस्यां च सहस्रगुणितायामक्षराण्युपि षट्त्रिंशत्संख्याकैः सहस्रैर्युक्तानि भवन्ति । संवत्सरश्च षष्ट्युत्तरशतत्रयदिनात्मकः । तस्मिन्संवत्सरे शतगुणितानि दिनान्यपि षट्त्रिंशत्सहस्रसंख्याकानि भवन्ति । ततः संख्यासाम्ये सत्यक्षरगतेषु तावत्संख्याकेषु व्यञ्जनेषु तावत्संख्याकारात्रिदृष्टिं कुर्यात् । तथा स्वरेष्वहर्दृष्टिं कुर्यात् । अकारमारभ्य मातृकायामौकारपर्यन्ता वर्णाः स्वराः । अत एव कुमारेणैवं सूत्रितम्—"सिद्धो वर्णसमाम्नायः" "तत्र चतुर्दशाऽऽदौ स्वराः" इति ।

यथोक्तसर्वविशेषणविशिष्टस्य प्राणदेवध्यानस्य प्रधानफलं दर्शयति—

तद्वा इदं बृहतीसहस्रं संपन्नं तस्य वा एतस्य बृहतीसहस्रस्य संपन्नस्य परस्तात्प्रज्ञामयो देवतामयो ब्रह्ममयोऽमृतमयः संभूय देवता अप्येति य एवं वेद, इति ।

प्रज्ञामयत्वादिगुणचतुष्टयेन फलेन च संबन्धार्थं तद्वा इदमित्याद्यनुवादः । बुद्धिविशेषसंपादितस्य बृहतीसहस्रस्य स्वरूपभूतः प्राणदेवः प्रज्ञामयश्चित्स्वरूपः सर्वज्ञ इत्यर्थः । देवतामयोऽग्निवाय्वादिसर्वदेवतासमष्ट्यात्मकः । ब्रह्ममयः सर्ववेदात्मकः । अमृतमयस्तत्त्वज्ञानोत्पादनेन मोक्षहेतुत्वान्मुक्तिरूपः । यः पुमानेवमुपास्ते स पुमानेव ता अग्निवाय्वादिकाः संभूय सर्वा अप्येकीकृत्याप्येति तद्देवतासमष्टिरूपं हिरण्यगर्भं प्राप्नोति ।


१ घ. ङ. °भजते । त° । २ क. ख. ग. °नि च भ° । ३ क. तस्मिंश्च सत्रे श° । ४ ख. ग. °स्मिन्सङ्ग्रहे श° । ५ क. ख. ग. °णिते सति दि° । ६ क. ख. °णैव सू° । ७ घ. ङ. °त्रिताः—"सिं° । ८ ग. °द्देश स्व° । ९ ख. ग. °दः । बुद्धि° । १० घ ङ. °शेषेकसं° । ११ क. °स्य संपन्नस्य स्व° ।