भारतकोश
ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

Aitareya Aranyaka Hindi

महर्षि ऐतरेय महिदास द्वारा

स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)

DevanagariHindipublished304 पृष्ठ

पृष्ठ 172, कुल 304 में से

संदर्भ में पढ़ें
पृष्ठ 172

अध्या० ४ ख ३(२३)] ऐतरेयारण्यकम् । १६७

मर्थोऽस्मदनुभवसिद्ध इत्यर्थः । किंचायं वायुरन्नायुर्वे, अन्नद्वारेणाऽऽयुष्यहेतुरेव । अन्नरसेन हि प्राणो देहे बध्यते । अत एव वाजसनेयिनः शिशुब्राह्मणे प्राणवर्णनप्र- स्तावे—“अन्नं दाम” [ बृह० २ । २ । १ ] इति वाक्येनान्नस्य प्राणबन्धनरज्जु- त्वमामनन्ति । तथाऽन्नबन्धनशैथिल्ये सति जीवस्य देहपरित्यागं सदृष्टान्तमामनन्ति, तद्यथा—“ आम्रं वोदुम्बरं वा पिप्पलं बन्धनात्प्रमुच्यत एवमेवायं पुरुष एभ्योऽ- ङ्गेभ्यः संप्रमुच्यते ” [ बृह० ४ । ३ । ३६ ] इति । अन्नबन्धनप्रयुक्तस्य प्राणा- वस्थानस्याऽऽयुर्हेतुत्वं लोके प्रसिद्धं कौषीतकिनः समामनन्ति—“ यावद्ध्यस्मिञ्छ- रीरे प्राणो वसति तावदायुः ” [ कौषी० ३ । २ ] इति । तदेतत्सर्वमभिप्रेत्यान्नायुर्वा एष इत्युच्यते ।

भोगाधिष्ठानभोगसाधनभोग्यभोगानां सृष्टिमभिधाय भोगस्वामिनं दर्शयितुमीश्वरस्य विचारमाह—

स ईक्षत कथं न्विदं महते स्यादिति, इति ।

यदिदं देहेन्द्रियतदभिमानिदेवैस्तदीयात्तत्स्वीकाररूपं व्यवहारजातमस्ति तदिदं सर्वं महते भोगस्वामिनं जीवरूपं मां विना कथं नु नाम स्यान्न कथं चिदुपपद्यते । न हि नगरस्वामिनं राजानं विहाय पुरस्य वा पौरजनानां वा रचना शोभते । तस्मा- द्भोगस्वामिना मया जीवरूपधारिणा देहे प्रवेष्टव्यमित्यर्थः ।

प्रवेशद्वारविचारं दर्शयति—

स ईक्षत कतरेण प्रपद्या इति, इति ।

द्वावत्र प्रवेशमार्गौ पादाग्रं मूर्ध्नि ब्रह्मरन्ध्रं च। तयोर्मध्ये कतरेण केन मार्गेण प्रपद्यै प्रविशानि ।

“ कथं नु ” इदमिति वाक्येन जीवप्रवेशस्य देहेन्द्रियव्यवहारपालनस्वरूपं प्रयोजनं विचारितम् । इदानीमात्मबोधरूपस्य प्रयोजनान्तरस्य विचारं दर्शयति—

स ईक्षत यदि वाचाऽभिव्याहृतं यदि प्राणेनाभि- प्राणितं यदि चक्षुषा दृष्टं यदि श्रोत्रेण श्रुतं यदि त्वचा स्पृष्टं यदि मनसा ध्यातं यद्यपानेनाभ्यपा- नितं यदि शिश्नेन विसृष्टमथ कोऽहमिति, इति ।

मां स्वामिनमनपेक्ष्य वागादयोऽभिवदनादिव्यापारेषु स्वतन्त्राः कर्तारः स्युस्तदानी- महं को नाम स्यां न कोऽपि भवेयम् । अस्ति कश्चिदेष देहादिव्यतिरिक्तश्चिदात्मा ।


१ क. ग. 'दि दे° । २ घ. ङ. 'न्द्रियं त° । ३ क. °वत्तान्न° । ख. °वत्तादावन्न° । घ. ङ. °वतयाऽऽदावन्न° । ४ घ. ङ. पदाग्रं ।

ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या) · पृष्ठ 172, कुल 304 में से · BharatKosha