ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)
Aitareya Aranyaka Hindi
महर्षि ऐतरेय महिदास द्वारा
स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)
पृष्ठ 174, कुल 304 में से
संदर्भ में पढ़ेंअध्या० ४ ख० २] ऐतरेयारण्यकम् । १६९
यथा महाराजस्य क्रीडार्थमुपय्यधोभावेन वर्तमानाः प्रासादस्य भूमयो निर्मीयन्त एवमस्याऽऽत्मनः शरीरमध्ये क्रीडार्थं त्रय आवसथास्त्रीणि स्थानानि निर्मितानि । त्रिषु स्थानेषु त्रयः स्वप्नास्तेनाऽऽत्मनाऽवलोक्यन्ते । अयमावसथ इत्यादिना नेत्रकण्ठहृदयाख्यानि स्थानानि हस्ताग्रेण प्रदर्श्यन्ते । तेषु हि जागरणाद्यवस्थानां निष्पत्तिः । तथा च ब्रह्मोपनिषद्याम्नायते— “नेत्रस्थं जागरितं विद्यात्कण्ठे स्वप्नं समादिशेत् । सुषुप्तं हृदयस्थं तु” [ ब्रह्मो० ३ ] इति । जागरितादीनां महाराजस्य प्रासादश्रैये क्रीडावज्जीवक्रीडारूपत्वं कैवल्योपनिषद्याम्नायते—
“सयन्नपानादिविचित्रभोगैः स एव जाग्रत्परितृप्तिमेति ।
स्वप्नेषु जीवः सुखदुःखभोक्ता स्वमायया कल्पितविश्वलोके ॥
सुषुप्तिकाले सकले विलीने तमोभिभूतः सुखरूपमेति ।
पुनश्च जन्मान्तरकर्मयोगात्स एव जीवः स्वपिति प्रबुद्धः ।
पुरत्रये क्रीडति यश्च जीवस्ततस्तु जातं सकलं विचित्रम्”
[ कैव० १२ ] इति ।
ननु जागरणसुषुप्तयोः स्वप्नादन्यत्वे त्रयः स्वप्ना इत्युक्तमिति चेन्न । स्वप्नलक्षणोपेतत्वात् । विद्यमानं वस्तुतत्त्वं तिरोधाय समुत्पन्नोऽन्यथाप्रतिभासः स्वप्न इति तल्लक्षणम् । जागरणसुषुप्तयोरपि विद्यमानस्य ब्रह्मतत्त्वस्य तिरोधानेनान्यथाभूतस्य जीवतत्त्वस्य चावभास इत्यस्ति लक्षणम् । तस्माल्लोकप्रसिद्धस्य स्वप्नस्यैकत्वेऽपि लक्षणसिद्धाः स्वप्नास्त्रयः । त्रय आवसथा इत्यनेन पितृशरीरमातृशरीरस्वशरीररूपाणि वा त्रीणि स्थानानि लक्ष्यन्ते । तथाचोपरितनाध्याये प्रपञ्चयिष्यते । संसारो द्विविधः । दैनंदिनव्यवहारो जन्मान्तरस्वीकारश्चेति । तत्र दैनंदिनव्यवहारस्य नेत्रादीनि स्थानानि जन्मान्तरव्यवहारस्य पितृमातृस्वीयशरीराणि स्थानानीति विवेकः । इतिशब्दः संसाररूपस्याध्यारोपप्रकरणस्य समाप्त्यर्थः ।
अथापवादप्रकरणार्थं संक्षिप्य दर्शयति—
स जातो भूतान्यभिव्यैख्यत्किमिहान्यं वावदिषदिति
स एतमेव पुरुषं ब्रह्मततमपश्यत् , इति ।
स परमात्मा जातो देहप्रवेशेन जन्ममरणजागरणस्वप्नसुषुप्तिभिः संसारीभूतः सन्कदाचिदीश्वरानुग्रहाद्गुरुशास्त्रप्रसादेन च भूतान्याकाशादीनि प्राणिनश्चाभिव्यैख्य-
१ घ. ङ. 'भागेन । २ क. ख. 'मानप्रा' । ग. 'मानस्य प्रा' । ३ घ. ङ. 'नि हृ' । ४ क. ख. हृदिस्थं विद्यादिति । ५ घ. घ. 'श्रयक्री' । ६ क. जीवो जात' । ७ घ. ङ. विवक्ष्यन्ते । ८ क. ख. 'नि त्रीणि ज' । ९ क. 'री कृतः ।
२२