ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)
Aitareya Aranyaka Hindi
महर्षि ऐतरेय महिदास द्वारा
स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)
पृष्ठ 178, कुल 304 में से
संदर्भ में पढ़ेंअध्या० २ ख० १] ऐतरेयारण्यकम् । १७३
स्त्रीयोनौ प्रविष्टं तत्पुरुषरेतस्तस्याः स्त्रिया आत्मभूतं स्वशरीरभावं गच्छति । यथा स्वकीयमङ्गं स्तनहस्तादिकं नै स्वशरीरात्पृथग्भूतं तद्वत् । तस्मात्स्वशरीरत्वेनैकीभावात्करणादेनां स्त्रियं न हिनस्ति, उदरलग्नबाणवद्धिंसां न करोति ।
तद्गर्भद्वारेण स्त्रीपुरुषयोः परस्परमुपकार्योपकारकभावं दर्शयति—
साऽस्यैतमात्मानमत्र गतं भावयति सा
भावयित्री भावयितव्या भवति, इति ।
सा गर्भधारिणी स्त्री, अत्र गतं स्वशरीरे प्रविष्टमस्य पुरुषस्य रेतःसेक्तुरात्मानं पुरुषरूपं भावयति परिपालयति। विरुद्धाशनादिपरित्यागोऽनुकूलान्नाद्युपयोगश्च परिपालनम् । यस्मात्स्त्री गर्भपरिपालनेन भावयित्री पुरुषस्यैव पालयित्री तस्मात्कारणात्तेन पुरुषेण सा स्त्री भावयितव्याऽभीष्टान्नपानवस्त्रादिप्रदानेन पालयितव्या भवति ।
स्त्रीपुरुषयोरुभयोरपि पुत्रं प्रत्युपकारेकत्वं दर्शयति—
तं स्त्री गर्भं बिभर्ति सोऽग्र एव
कुमारं जन्मनोऽग्रेऽधिभावयति, इति ।
तं पुरुषरूपं गर्भं मातृरूपा स्त्री महान्तं प्रयासं सोढ्वा नव दश वा मासान्त्स्वोदरे धारयित्वा पोषयति । सं च पिताऽग्र एव प्रसवात्प्रागेव निष्पन्नं कुमारं जन्मनोऽग्रे प्रसवादूर्ध्वमधिभावयति । अधिकत्वेन शास्त्रीयजातकर्मादिना संस्कर्तेति ।
कुमारसंस्कारेण पितुरुपयोगं दर्शयति—
स यत्कुमारं जन्मनोऽग्रेऽधिभावयत्यात्मानमेव तद्भावयति, इति ।
पुत्रसंस्कार इति यदस्ति तेन पिता स्वस्यैव संस्कारं करोति । पुत्रस्य स्वदेहरूपत्वात् । तथा चान्यत्र श्रूयते—"पतिर्जायां प्रविशति गर्भो भूत्वा समातरम् । तस्यां पुनर्नवो भूत्वा दशमे मासि जायते" [ बृह० ] इति "आत्मा वै पुत्र नामासि" [ कौषी० ११ ] इति च ।
ननु पुरुषस्योपनयनादिना स्वकीयः संस्कारः पूर्वमेव संपन्नः किमनेन पुत्रसंस्कारेण पुत्रोत्पादनेन चेत्यत आह—
एषां लोकानां संतत्या एवं संतता हीमे लोकाः, इति ।
पुत्रपौत्रप्रपौत्रादय इमे जना लोकास्तेषां लोकानामविच्छेदाय संस्कृतपुत्रोत्पाद-
१ घ. छ. 'ङ्गं ह' । २ घ. ङ. न श' । ३ क. ख. ग. 'भावकर' । ४ घ. ङ. 'त्यागेनानु' । ५ घ. ङ. 'रकत्वं । ६ घ. ङ. पुत्ररूपं' । ७ ग. स एव पि' । ८ घ. ङ. संस्कारं करो' ।