ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)
Aitareya Aranyaka Hindi
महर्षि ऐतरेय महिदास द्वारा
स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)
पृष्ठ 193, कुल 304 में से
संदर्भ में पढ़ें१८८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [३तृतीयारण्यके-
हनः । ईषयोर्दीर्घकाष्ठयोर्मध्ये कंचित्प्रबलमश्वं संयोज्य तयोरीषयोर्बहिरुभयोः पार्श्वयोर्द्वावश्वौ मध्यमाश्वस्यादान्तस्य नियामकौ संयोज्येते सोऽयमश्वत्रयोपेतो देवानां रथः । तथा तैत्तिरीया वाजपेयप्रकरणे समामनन्ति—“पृष्ठिवाहिनं युनक्ति । पृष्ठिवाही वै देवरथः । देवरथमेवास्मै युनक्ति ” इति । यथा देवरथोऽश्वत्रयेण युक्त एवमयमप्युपास्तिरथो मनोवाक्प्राणैस्त्रिभिर्ध्येयविशेषैः संयुक्तः, तस्मात्पृष्ठिवाहिरथवत्सहसा फलप्रापणे समर्थ इत्यर्थः² ।
इदानीं फलं दर्शयति—
स य एवमेतां संहितां वेद संधीयते प्रजया पशुभिर्य-
शसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वमायुरेति, इति ।
यः पुमानेवमुक्तप्रकारेण विहितां “पृथिवी पूर्वरूपम्” इत्यादिकां देवतारूपां संहितां वेदोपास्ते³। यद्यपि विदिधातुः प्रमाणजन्यज्ञानवाची तथाऽप्युपास्तिक्रियामन्तरेण फलासंभवान्मानसत्वसाम्येन तां क्रियामुपलक्षयति । स उपासकः प्रजादिभिः संधीयते संयोज्यते । प्रजा पुत्रपौत्रादिरूपा । पशवो गवाश्वादयः । यशो धनदानादिकीर्तिः । ब्रह्मवर्चसं श्रुताध्ययनसंपत्तिः । तदेतत्सर्वं चित्रान्यायेन प्रतिबन्धाभावे सत्यैहिकं फलम् । “चित्रया यजेत पशुकामः” इत्यत्र पशुसंपादकदृष्टप्रयत्नसद्भावे सति पशुप्राप्तिरैहिकी, अन्यथाऽऽमुष्मिकीति पूर्वमीमांसायां निर्णीतम् । तद्वदत्रापि प्रजादिफलमैहिकमामुष्मिकं चेत्यनियतम् । स्वर्गस्त्वामुष्मिक एव । सर्वमायुरेतीत्यनेनापमृत्युराहित्यं विवक्षितम् ।
उक्तोपासनायाः सांप्रदायिकत्वं दर्शयति—
इति नु माण्डूकेयानाम् , इति ॥
इत्यैतरेयब्राह्मणारण्यककाण्डे तृतीयारण्यके प्रथमाध्याये
प्रथमः खण्डः ॥ १ ॥
इत्येवमुक्ता—“पृथिवी पूर्वरूपम्” [ ऐ० आ० ३ अ० १ ख० १ ] इत्याद्युपासना मण्डूकारव्यस्य महर्षेः पुत्राणां संप्रदायाद्भूमावागता ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यकभाष्ये तृतीयारण्यके प्रथमाध्याये प्रथमः खण्डः ॥ १ ॥
¹ घ. ङ. °जसनेय° । ² घ. ङ. °र्थः । तदिदा° । ³ क. ख. विदिर्धातुः । ⁴ घ. ङ. °वाद° ।