भारतकोश
ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

Aitareya Aranyaka Hindi

महर्षि ऐतरेय महिदास द्वारा

स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)

DevanagariHindipublished304 पृष्ठ

पृष्ठ 199, कुल 304 में से

संदर्भ में पढ़ें
पृष्ठ 199

१९४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [३तृतीयारण्यके-

दोषोद्भावकः शत्रुर्यदि ब्राह्मणस्तं प्रति कुशलादन्यन्नैव ब्रूयात्, मदीयसं- हितादौ दोषोद्भावनं तुभ्यं हितं न भवत्यतो दोषोक्तिं परित्यज्य त्वं सुखेन तिष्ठेत्येवं *कुशलं ब्रूयात् । देवता रिष्यतीत्येतादृशं शापं न ब्रूयात् ।

कचिद्ब्राह्मणेऽपि शापमभ्यनुजानाति—

अतिद्युघ्न एव ब्राह्मणं ब्रूयात्, इति ।

अतिशयितं द्युम्नं धनमतिद्युम्नं तस्मिन्नेव विषये विघातकं शत्रुं ब्राह्मणं शपेन्न त्वल्पे विषये ।

इदानीं माण्डूकेयस्य महर्षेर्मतं दर्शयति—

नातिद्युघ्ने चन ब्राह्मणं ब्रूयान्नमो अस्तु ब्राह्म- णेभ्य इति ह स्माऽऽह शूरवीरो माण्डूकेयः, इति ॥ इत्यैतरेयब्राह्मणारण्यककाण्डे तृतीयारण्यके प्रथमाध्याये तृतीयः खण्डः ॥ ३ ॥

चनशब्दोऽप्यर्थः । अतिद्युघ्नेऽपि महाधनविषयेऽपि विरोधिनं ब्राह्मणं न ब्रूयान्न शपेत्किं तु ब्राह्मणेभ्यो नमोऽस्त्वित्येतावदेव ब्रूयात् । तदेतन्महर्षेर्मतम् ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यक- भाष्ये तृतीयारण्यके प्रथमाध्याये तृतीयः खण्डः ॥ ३ ॥


अथ चतुर्थः खण्डः ।

पुनरप्यन्यदुपासनं प्रतिजानीते—

अथातोऽनुव्याहाराः, इति ।

अथ निर्भुजादिध्यानकथनानन्तरं यतो दोषवादिनः शत्रोः शापमन्तरेण स्वफलसि- द्धिर्नास्ति । अतः कारणादनुव्याहाराः परकीयदोषोक्तिमनु स्वस्य व्याहाराः शाप- रूपं वचनं येषां प्राणोपासकानां तेऽनुव्याहारा महर्षय उपासनं प्राहुरिति शेषः ।

तदुपासनं विधत्ते—

प्राणो वंश इति विद्यात्, इति ।

यथा लोके प्रौढो वंशो गृहस्य धारक एवमयं देहगृहस्य धारकत्वेन वंशसदृशः प्राणवायुः संहितातस्वरूप इत्येवं ध्यायेत् । अत्र प्रकरणवशात्संहितेति लभ्यते ।


* कुशलमित्यस्य स्थाने क. पुस्तके वचनमिति बर्हिलिखितः पाठः।
१ घ. ङ. °ब्रूयो ब्रा°। २ घ. ङ. दद्यात् । ३ क. ख. ॰हस्याऽऽधा° । ४ घ ङ. तत्र ।