ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)
Aitareya Aranyaka Hindi
महर्षि ऐतरेय महिदास द्वारा
स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)
पृष्ठ 226, कुल 304 में से
संदर्भ में पढ़ेंअध्या० २ ख० ९(११)] ऐतरेयारण्यकम्। २२१
रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः " [ प्रश्नो० ४ । ९ ] इति । तत्तदिन्द्रियावभासकत्वेन तत्तत्कर्तृत्वव्यवहारो न तु क्रियाश्रयत्वं कर्तृत्वमित्यभिप्रेत्योत्तरतापनीये पठ्यते—" चक्षुषो द्रष्टा श्रोत्रस्य द्रष्टा वाचो द्रष्टा मनसो द्रष्टा बुद्धेर्द्रष्टा प्राणस्य द्रष्टा मनसो द्रष्टा सर्वस्य द्रष्टा " [ नृ० उ० २ ] इति । चक्षुर्भासकत्वमपि भासनक्रियाश्रयत्वं न भवति किं तु स्वप्रकाशचैतन्यरूपस्य तत्तज्ज्ञानानुकूल्येनावस्थानं साक्षित्वमेवेति तत्रैवाऽऽम्नातम्—" चक्षुषः साक्षी श्रोत्रस्य साक्षी वाचः साक्षी मनसः साक्षी बुद्धेः साक्षी प्राणस्य साक्षी मनसः साक्षी सर्वस्य साक्षी" [नृ० उ० २ ] इति । एवम् " असङ्गो ह्ययं पुरुषः" [ बृह० ४ । ३ । १६ ] इत्यादीन्युदाहरणीयानि । यद्यप्यादेष्टा घोष्टेति पदद्वयेन वाग्व्यापारकर्तृत्वमेवाभिधीयते तथाऽपि राजादिवदाज्ञापयितृत्वमादेष्टृत्वं सैन्यस्याऽऽह्वायितृयाष्टिकवदुच्चध्वनिकर्तृत्वं घोष्टृत्वमिति विवेकः । विज्ञातृत्वप्रज्ञातृत्वे अप्यवान्तरभेदेन विवेचनीये । देहेन्द्रियादिभ्यः प्रत्यगात्मानं विविच्य विज्ञातृत्वं तस्य च विविक्तस्य प्रकृष्टब्रह्मरूपत्वेन ज्ञातृत्वं प्रज्ञातृत्वम् । सर्वेषां भूतानामन्तरपुरुष इत्यनेन हिरण्यगर्भाद्युपाधिप्रयुक्तमात्मनो नानात्वं निराकृतम् । तादृशस्य परमात्मनः स म आत्मेति विद्यादिति वाक्येन स्वकीयसंसारित्वनिवारणाय तादात्म्यमुपन्यस्तम् । ईदृग्वस्तुसाक्षात्कारे सति देहपातकाल एव विमुच्यते । तथाविधवस्तूपासने तु ब्रह्मलोकप्राप्तिद्वारा क्रमेण विमुच्यते । इत्येवमादित्यमण्डलस्थस्वशरीरान्तर्गतपुरुषैक्यध्यानप्रसङ्गागतान्यरिष्टदर्शनानि तद्युक्तस्य परमपुरुषार्थहेतुभूता ब्रह्मविद्या च परिसमापिता ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यकभाष्ये तृतीयारण्यके द्वितीयाध्याये चतुर्थः खण्डः ॥ ४ ॥ ( १० )
अथ पञ्चमः खण्डः । ( एकादशः )
प्रासङ्गिकं परिसमाप्य प्रकृतामेवोपासनां प्रकारान्तरेण वक्तुं प्रतिजानीते—
अथ खल्वियं सर्वस्यै वाच उपनिषत्सर्वा ह्येवेमाः
सर्वस्यै वाच उपनिषद इमां त्वेवाऽऽचक्षते, इति ।
प्रासङ्गिकब्रह्मविद्याकथनानन्तर्यार्थेऽथशब्दः । वक्ष्यमाणोपासनायाः प्रसिद्धयर्थः खलुशब्दः । इयमनन्तरमेव वक्ष्यमाणोपनिषदूपासना सर्वस्यै वाचः संबन्धिनी । अकारादिक्षकारान्तानां मातृकामन्त्रगतानां सर्वेषां वर्णानामत्रोपासनीयत्वात् । यद्य-
१ ग. 'पारे क'। २ क. ख. मुच्यते । ३ क. ख. 'सन्तत्वा' । ग. 'सनसत्त्वात् ।