भारतकोश
ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

Aitareya Aranyaka Hindi

महर्षि ऐतरेय महिदास द्वारा

स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)

DevanagariHindipublished304 पृष्ठ

पृष्ठ 47, कुल 304 में से

संदर्भ में पढ़ें
पृष्ठ 47

४२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [१प्रथमारण्यके-

सीन्यधिकृत्य वर्तत इत्यधिदैवतम्। +स्वर्गनिवासिषु देवेषु प्रसिद्धं यन्नामादं उ एत- देव प्रकटमित्युच्यते। इत्येतदभिप्रायद्वयं तत्तेन चतुर्थपादेनोक्तं भवति। अस्मिन्मन्त्रे प्राथमिकनाम्नः प्राशस्त्यं प्रतीयते । प्राथमिकं च तद्यत्तदिदासेति सूक्तादावपि तकारः प्रयुक्तस्तस्मात्सूक्तं प्रशस्तमित्यर्थः ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यक- भाष्ये प्रथमारण्यके तृतीयाध्याये तृतीयः खण्डः ॥ ३ ॥ ( ११ )


अथ चतुर्थः खण्डः । ( द्वादशः )


इत्थं महता प्रबन्धेन सूक्तादिस्तच्छब्दः प्रशस्तः । अथ सूक्तादौ यस्तृचो राज- नसाम्नः “स्तोत्रियो राजनस्तोत्रियेण प्रतिपद्यते” [ ऐ० आ० १ अ० १ ख० ५ ] इति पञ्चमे वक्ष्यमाणत्वात्तमिमं तृचं क्रमेण व्याचिख्यासुरादौ प्रथमाया ऋचः प्रथमं पादं “तदिदास” इत्यादिनाऽनुवदति । सेयमृग्दशतय्यामेवमाम्नाता—

“तदिदास भुवनेषु ज्येष्ठं यतो जज्ञ उग्रस्त्वेष नृम्णः।
सद्यो जज्ञानो निरिणाति शत्रूननु यं विश्वे मदन्त्यूमाः” इति ।
[ ऋ० सं० म० १० सू० १२० ऋ० १ ]

भुवनेषु पृथिव्यादिषु मध्ये तदित्सर्ववेदप्रसिद्धं जगत्कारणं ब्रह्म ज्येष्ठमासातिशयेन वृद्धं बभूव कारणत्वेन जगतः पूर्वं विद्यमानत्वात् । यतो यस्मात्कारणाद्ब्रह्मणस्त्वेष नृम्णः प्रदीप्तानल उग्रः स्वभावतोऽग्निर्जज्ञे समुत्पन्नः । सोऽग्निर्जज्ञान उत्पन्न एव सन्सद्यस्तदानीमेव शत्रून्निरिणाति निराकरोति । अवन्तीत्यूमा रक्षका विश्वे सर्वे देवा- दयः प्राणिनो यमग्निं हृष्यन्तमनु स्वयमपिहृष्यन्ति, नोऽग्निर्नोत इति पूर्वत्रानुच्चयः ।

अस्या ऋचः प्रथमपादमनूद्य व्याचष्टे—

तदिदास भुवनेषु ज्येष्ठमिति प्रतिपद्यत
एतद्वाव भुवनेषु ज्येष्ठम् , इति ।

तदित्यादिना शस्त्रं प्रारभेत । तच्छब्दोक्तस्य परब्रह्मण आदित्यमण्डलोपाधिकत्वेन दृश्यमानत्वादेतद्वावेत्युक्तम् ।


तदिदास भुव०—ऋ० सं० म० १० सू० १२० ऋ० १ ।


  • अत्र ख. ग. पुस्तकयोर्बहिः शोधितः पाठोऽस्मच्छरीरेष्विति वर्तते ।
    १ क. ॰म् । अस्मच्छरीरेषु । २ क. ॰द आविरेत॰ । ३ घ. ॰नुषंगः ।