ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)
Aitareya Aranyaka Hindi
महर्षि ऐतरेय महिदास द्वारा
स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)
पृष्ठ 53, कुल 304 में से
संदर्भ में पढ़ें४८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [१प्रथमारण्यके-
एतन्मिश्रप्रकरणं पञ्चमे स्पष्टमभिधास्यते—‘‘ नदं व ओदतीनामित्येतयैतानि व्यतिषजति पादैः पादान्नृहतकारम् ’’ ( ऐ० आ० ५ अ० १ ख० ६ ) इति । तत्तथा तत्रैवोदाहृत्यापीति प्रदर्शितम्—‘‘ तदिदास भुवनेषु ज्येष्ठं पु नदं व ओद- तीनां यतो जज्ञ उग्रस्त्वेष नृम्णोरु नदं योयुवतीनां सद्यो जज्ञानो निरिणाति शत्रू- न्पतिं वो अघ्न्यानामनु यं विश्वे मदन्त्यूमाः षो धेनूनामिषुध्यसोम् ’’ [ ऐ० आ० ५ अ० १ ख० ६ इति । नदलिङ्गकस्य मन्त्रस्यायमर्थः—ओदतीनां तृतीयसवन ऋजी- षमुन्दतीनामहन्तव्यानां वो युष्माकं पतिं पालकं यजमानं रक्षत । हे इन्द्र त्वं धेनूनां धेनुवत्प्रीणयितॄणामपामिषुध्यसि, ईश्वरोऽसि । ‘‘ इषुध ऐश्वर्ये ’’ [ क० ग० प० ] इति धातुः ।
अस्या ऋचः प्रथमपादं व्याचष्टे—
नदं व ओदतीनामिती३ँ आपो वा ओदत्यो या दिव्यास्ता हीदं सर्वमुन्दन्त्यापो वा ओदत्यो या मुख्यास्ता हीदं सर्वमन्नाद्यमुन्दन्ति, इति ।
अस्मिन्पादे ओदतीशब्देनाऽऽप एव विवक्षिताः । यस्माद्या आपो दिव्यभवन्वृ- ष्टिद्वारेणाऽऽगतास्ता आपः सर्वमिदं भूत[जात]मुन्दन्ति क्लेदयन्ति, तथा मुखे भवा आस्योदकरूपा या आपस्ताः सर्वमन्नाद्यं शुष्कमपि पृथगिव शष्कुल्यादिकं सर्वं खाद्यं द्रवी कुर्वन्ति, तस्मादोदत्य इत्युच्यन्ते । इति शब्दस्योपरि योऽयं सानुनासिकः प्लुतः सोऽयं पादप्रतिग्रहणेऽन्यतमादरार्थः ।
[*द्वितीयपादं व्याचष्टे—
नदं योयुवतीनामिती३ँ आपो वाव योयुवत्यो या अन्तरिक्ष्यास्ता हि पोप्लूयन्त इवाऽऽपो वाव योयु- वत्यो याः स्वेदते ता हि सरीसृप्यन्त इव, इति ।]
तृतीयपादं व्याचष्टे—
पतिं वो अघ्न्यानामिती३ँ आपो वा अघ्न्या या अग्नेर्धूमा-
नदं व ओदतीनामि०—ऋ० सं० म० ८ सू० ६९ ऋ० २ । नदं योयुवतीना०—ऋ० सं० म० ८ सू० ६९ ऋ० २ । पतिं वो अघ्न्यानाम्—ऋ० सं० म० ८ सू० ६९ ऋ० २ ।
* एतच्चिह्नान्तर्गतो मूलातिरिक्तो ग्रन्थत्रुटितत्वात्प्रकल्प्य निवेशितः । मूलं तु मूलपुस्तकेभ्य उद्धृत्य निवेशितम् ।
१ क. ख. घ. ॰च्यते । इ° ।