भारतकोश
ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

Aitareya Aranyaka Hindi

महर्षि ऐतरेय महिदास द्वारा

स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)

DevanagariHindipublished304 पृष्ठ

पृष्ठ 56, कुल 304 में से

संदर्भ में पढ़ें
पृष्ठ 56

अध्या० ३ ख० ७ (१६)] ऐतरेयारण्यकम् । ५१

उ आविर्धिदैवतमित्येतत्तदुक्तं भवति, इति ॥

इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमारण्यके तृतीयाध्याये षष्ठः खण्डः ॥ ६ ॥ ( १४ )

अक्षरार्थः पूर्वमेव [ ऐ० आ० १ अ० ३ ख० ३ ] व्याख्यातः । इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यक- भाष्ये प्रथमारण्यके तृतीयाध्याये षष्ठः खण्डः ॥ ६ ॥ ( १४ )


अथ सप्तमः खण्डः । ( पञ्चदशः )

सूक्तमपि प्रशस्य सामान्येन प्रशंसामभिधाय पुनर्विशेषाकारेण प्रशंसाऽभिधीयते । तत्र प्रथमं सूक्तं प्रशंसति—

तदिदास भुवनेषु ज्येष्ठमिति प्रतिपद्यते यद्वै ज्येष्ठं तन्महन्महद्रूपसमृद्धमेतस्याह्नो रूपम्, इति ।

प्रथमे शस्त्रं प्रारभते । अतिशयेन बहुवृद्धं ज्येष्ठं तादृशम् ।

[*तां सु त इत्यादि प्रशंसति—

तां सु ते कीर्ति मघवन्महित्वेति महद्रूपसमृद्धमेतस्याह्नो रूपम्, इति ।

भूय इत्यादि प्रशंसति—]

भूय इद्धावृधे वीर्यायेति वीर्यवद्रूपसमृद्धमेतस्याह्नो रूपम्, इति ।

भूय इदित्थमिन्द्रो वीर्याय शौर्यार्थं वावृधे वृद्धिं प्राप्तवान् । वीर्यशब्दस्य श्रुतत्वादह्नो रूपस्य वीर्यवत्त्वम् ।

अथ तृचं प्रशंसति—

नृणामु त्वा नृतमं गीर्भिरुक्थैरित्युक्थं वा एतदहरुक्थवद्रूपसमृद्धमेतस्याह्नो रूपम्, इति ।

उत्तिष्ठत्युत्कर्षं प्राप्नोत्येभिरित्युक्थानि शस्त्राणि तद्रूपाभिर्गीर्भिर्हे इन्द्र नृणामु


तदिदास भुवनेषु०—ऋ० सं० म० १० सू० १२० ऋ० १ । तां सु ते की०—ऋ० सं० म० १० सू० ९४ ऋ० १ । भूय इद्धावृ०—ऋ० सं० म० ६ सू० ३१ ऋ० १ । नृणामु त्वा०—ऋ० सं० म० ३ सू० ५१ ऋ० ४ ।

* एतच्चिह्नान्तर्गतो मूलग्रन्थो मूलपुस्तकेभ्य उद्धृत्यान्यश्च प्रकल्प्यात्र निवेशितः ।