भारतकोश
ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

Aitareya Aranyaka Hindi

महर्षि ऐतरेय महिदास द्वारा

स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)

DevanagariHindipublished304 पृष्ठ

पृष्ठ 75, कुल 304 में से

संदर्भ में पढ़ें
पृष्ठ 75

७० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [१प्रथमारण्यके-

तां सूददोहसं द्वादशवारं पठित्वा तत ऊर्ध्वमत्र वशाशंसनस्थाने परित्यजेत् । न त्वित ऊर्ध्वमूरुभागस्थाने तां सूददोहसं पठेत् । शस्त्रपक्षिणः पूर्वोक्ता एकादशावयवा आत्मा ग्रीवा शिरो विजबौ द्वौ पक्षौ पुच्छं तृचाशीतिरूपाणि त्रीण्यन्नानि वशाख्य- मुदरं चेति, तत्र सर्वत्र सूददोहाः सकृत्पठिता पुच्छे तु धाय्यायाः पुरस्तादुपरिष्टाच्च द्विः पठिता, एवं द्वादशावृत्तिः । शरीरगता इमे प्राणाश्च छिद्रभेदेन द्वादशविधाः । शिरसि सप्त छिद्राणि, स्तनयोर्द्वे छिद्रे, नाभ्यां पायुगुदयोश्च त्रीणि । एतेषु द्वादशसु च्छिद्रेष्वेव सर्वे प्राणाः प्राप्यन्ते । अत एव मन्त्रात्मना ते प्राणाः संस्क्रियन्ते । यस्मा- द्द्वादशविधप्राणसाम्यमत्र समाप्तं तस्मादेनामूर्ध्वमत्र परित्यजेत् । न तूपरितन ऊरुभागे पठेत् ।

उदरभागमुक्त्वा शस्त्रपक्षिण ऊरुभागं विधत्ते—

इन्द्राग्नी युवं सु न इत्यैन्द्राग्ना ऊरू उर्वष्ठीवे प्रतिष्ठे, इति ।

‘‘इन्द्राग्नी युवम्’’ इत्यादिसूक्तं द्वादशर्चं तच्च शस्त्रपक्षिण ऊरुत्वेन पठनीयम् । अस्मिन्सूक्ते याविन्द्राग्नी प्रतीयेते तयोः संबन्धिनौ पक्षिण ऊरू । ‘‘इन्द्राग्नी वै देवा- नामोजिष्ठौ बलिष्ठौ’’ [ तै० ब्रा० का० ३ प्र० ८ अ० ७ ] इति तयोः प्रवलत्व- श्रवणादूर्वोश्च गमनादिव्यवहारहेतुत्वेन प्रबलत्वात् ।

[एतत्सूक्तगतानामृचां षट्पदत्वं प्रशंसति—]

ताः षट्पदा भवन्ति प्रतिष्ठाया एव द्विप्रतिष्ठो वै पुरुषश्चतुष्पादाः पशवो यजमानमेव तद्वि- प्रतिष्ठं चतुष्पात्सु पशुषु प्रतिष्ठापयति, इति ।

अस्मिन्सूक्ते द्वितीयस्या अन्तिमायाश्च विशेषस्य वक्ष्यमाणत्वाद्या अवशिष्टा दशर्चः सन्ति ताः प्रत्येकं षट्पदा भवन्ति । तच्च प्रतिष्ठार्थमेव संपद्यते । तत्कथमिति तदु- च्यते—लोके मनुष्यः पादद्वयेन भूमौ प्रतिष्ठति । पशवस्तु चतुष्पादा वर्तन्ते । एवं सत्यत्रापि तत्तेन पादषट्कपाठेन पादद्वयोपेतं यजमानं चतुष्पात्सु प्रतिष्ठितं करोति ।

द्वितीयायां—‘‘न हि वां ववृयामहे’’ [ ऋ० सं० म० ८ सू० ४० ऋ० २ ] इत्येतस्यामृचि विशेषं विधत्ते*—

द्वितीया सप्तपदा भवति तां गायत्रीं चानुष्टुभं च करोति ब्रह्म वै गायत्री वागनुष्टुब्ब्रह्मणैव तद्वाचं संदधाति, इति ।


इन्द्राग्नी युवं सु०—ऋ० सं० म० ८ सू० ४० ऋ० १ ।


* क. ख. पुस्तकयोरेतदग्रे—‘‘एकस्मिन्पादेऽवसायोत्तरस्मिन्पादे प्रणवप्रयोगः पादशं- सनम् । इत्यधिकम् ।

ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या) · पृष्ठ 75, कुल 304 में से · BharatKosha