ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)
Aitareya Aranyaka Hindi
महर्षि ऐतरेय महिदास द्वारा
स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)
पृष्ठ 90, कुल 304 में से
संदर्भ में पढ़ेंअध्या० १ ख० १] ऐतरेयारण्यकम् । ८५
त्मनः स्वप्रकाशत्वेन घटादिवत्प्रमेयत्वं नास्तीति चेत् । मैवम् । घटादिग्राहकेष्वपि वास्तवेषु ज्ञानेषु न्यायतो विचार्यमाणेष्वात्मन एव प्रमेयत्वात् । तथा हि—यत्प्रमातुमर्हं तत्प्रमेयं तदर्हत्वं चाज्ञातत्वादात्मन एव युज्यते न तु घटादेः । अज्ञानेनाऽऽवृतत्वमज्ञातत्वम् । घटादयस्त्वज्ञानकार्यत्वान्नाज्ञानेनाऽऽवृताः ।
अत एवान्यत्रोक्तम्—
“अज्ञातरज्जुकार्यस्य सर्पस्याज्ञातता न हि ।
अज्ञातब्रह्मकार्यस्य जडस्याज्ञातता कुतः ॥
रज्जुसर्पं न जानामि बोद्धुमिच्छामि मानतः ।
इति व्यवहृतिं प्राज्ञा नाङ्गी कुर्वन्ति केऽपि च ॥
किं चाज्ञातत्वतो लभ्यं तिरोधानं न चेतरत् ।
स्वयमेव तिरोभूते जडे काऽन्या तिरोहितिः ॥
आविर्भूते स्वरूपे तु चैतन्येऽज्ञाननिर्मिता ।
तिरोधानाद्विशेषोऽस्ति शुभ्रवस्त्रे मषी यथा ॥
चन्द्रं मलिनयेद्राहुर्नीलमेघं न तु क्वचित् ।
एवं चैतन्यमज्ञातं जडं त्वज्ञानदेहकम् ॥
अतोऽनुभव एवैको विषयो ज्ञानलक्षणः ।
अक्षादीनां स्वतः सिद्धो यत्र तेषां प्रमाणता ॥
अनुभूतिग्रहायैव प्रवृत्तान्यपि दृष्ट्या ।
सामग्र्याऽखिलमानानि गृह्णन्ति जडसंयुताम् ॥
शुक्तिकाग्रहणायैव प्रवृत्तमपि लोचनम् ।
गृह्णीते रजतोपेतं शुक्त्यंशं दोषयोगतः ॥
वेदान्तेतरसामग्री दृष्टैषा चक्षुरादिका ।
तज्जा धीरत्र गृह्णाति स्फूर्तिं रूपादिंसंयुताम् ॥
एवं च सति विभ्रान्तः कल्पिते रजते धियम् ।
प्रमाणं मनुते यद्वद्रूपाद्यौ मनुजस्तथा ॥
ब्रह्मण्यक्षादिमानत्वमिति न्यायविदां मतम् ।
रूपादावेव तन्मत्वमिति मूढधियो जगुः ” [वाक्यवृ०] इति ॥
१ क. ख. ॰मेयत्वार्हं तच्च ज्ञा॰ । २ क. ॰मल्पत्वत्वं । ३ क. ख. ॰यस्तु ज्ञा॰ । ४ क. ॰ज्ञानता । ५ क. ख. तु चेतनाऽन्येन नि॰ । ६ क. ॰धं तु न क्व॰ । ७ ग. ॰यो ज्ञप्तिल॰ । ८ क. ख. ॰ह्वते जडसंयुतान् । शु॰ । ग. ॰ह्वतेऽखिलसंयुतान् । शु॰। ९ क. प्रामाण्यं । १० क. ख. ॰प्यज्ञादि॰ । ११ ग. ॰न्मानमि॰ । घ. ॰न्मात्रमि॰ ।