ऐतरेय ब्राह्मण (ऋग्वेद - हिन्दी अनुवाद सहित)
Rigvediya Aitareya Brahmana with Hindi Translation
महिदास ऐतरेय / पं. गंगाप्रसाद उपाध्याय द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन प्रयाग · हिन्दी साहित्य सम्मेलन प्रयाग · 1950 (उद्गम)
पृष्ठ 305, कुल 592 में से
संदर्भ में पढ़ेंपहला अध्याय ] २९१ विहि होत्रा अवीता विपो न रायो अर्यः । वायवा चन्द्रेण रथेन याहि सुतस्य पीतये । (ऋ० ४।४८।१ ) वायो शतं हरीणां युवस्व पोष्याणाम् । उत वा ते सहस्रिणो रथ आ यातु पाजसा । ( ऋ० ४।४८।५ ) इन्द्रश्च वायवेषां सोमानां पीतिमर्हथः । युवां हि यन्तीन्दवो निम्न्न- मापो न सध्र्यक् ॥ वायविन्द्रश्च शुष्मिणा सरथं शवसस्पती । नियुत्वन्ता न ऊतय आ यातं सोमपीतये ॥ या वां सन्ति पुरुस्पृहो नियुतो दाशुषे नरा । अस्मे ता यज्ञवाहसेन्द्र- वायू नि यच्छतम् ॥ ( ऋ० ४।४७।२-५) आ चिकितान सुक्रतू देवौ मर्तं रिशादसा । वरुणाय ऋत पेशसे दधीत प्रयसे महे ॥ ता हि क्षत्रमविह्रुतं सम्यगसुर्यमाशाते । अध व्रतेव मानुषं स्वर्णधायि दर्शंतम् ॥ ता वामेषे रथानामुर्वी गव्यूतिमेषाम् । रातहव्यस्य सुष्टुतिं दधृक् स्तोमैर्मनामहे ॥ ( ऋ० ५।६६।१-३ ) आ नो विश्वाभिरूतिभिः सजोषो ब्रह्म जुषाणो हर्यश्व याहि । वरी- वृजत्स्थविरेभिः सुशिप्राऽस्मे दधद्वृषणं शुष्ममिन्द्र ॥ एष स्तोमो मह उग्राय वाहे धुरीवात्यो न वाजयन्नधायि । इन्द्र त्वायमर्क ईट्टे वसूनां दिवीव द्यामधिनः श्रोमत् धाः ॥ एवा न इन्द्र वार्यस्य पूर्धि प्र ते महीं सुमतिं वेविदाम । इषं पिन्व मघवद्भ्यः सुवीरां यूयं पात स्वस्तिभिः सदा नः ॥ ( ऋ० ७।२४।४-६ ) त्यमु वो अप्रहणं गृणीषे शवसस्पतिम् । इन्द्रं विश्वासाहं नरं मंहिष्ठं विश्वचर्षणिम् ॥ यं वर्धयन्तीद् गिरः पतिं तुरस्य राधसः । तमन्न्वस्य रोदसी देवी शुष्मं सपर्यतः ॥