भारतकोश
ऐतरेय ब्राह्मण (ऋग्वेद - हिन्दी अनुवाद सहित)

ऐतरेय ब्राह्मण (ऋग्वेद - हिन्दी अनुवाद सहित)

Rigvediya Aitareya Brahmana with Hindi Translation

महिदास ऐतरेय / पं. गंगाप्रसाद उपाध्याय द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन प्रयाग · हिन्दी साहित्य सम्मेलन प्रयाग · 1950 (उद्गम)

DevanagariSanskritpublished592 पृष्ठ

पृष्ठ 336, कुल 592 में से

संदर्भ में पढ़ें
पृष्ठ 336

३२२ [पाँचवीं पञ्चिका] पीवो अन्नान् रयिवृधः सुमेधाः श्वेतः सिषक्ति नियुतामभिश्रीः। ते वायवे समनसो वि तस्थुर्विश्वेनरः स्वपत्यानि चक्रुः॥ (ऋ० ७।९१।३) उच्छन्नुषसः सुदिना अरिप्रा उरु ज्योतिर्विबिदुदीध्यानाः। गव्यं चिदूर्वमुशिजो वि वव्रु स्तोषामनु प्रदिवः सस्रुरापः॥ (ऋ० ७।९०।४) उशन्ता दूता न दभाय गोपा मासश्च पाथः शरदश्च पूर्वीः। इन्द्रवायू सुष्टुतिर्वामियाना मार्डीकमीट्टे सुवितं च नव्यम्॥ (ऋ० ७।९१।२) यावत् तरस्तन्वोर्यावदोजो यावन्नरश्चक्षसा दीध्यानाः। शुचिं सोमं शुचिपा पातमस्मे इन्द्रवायू सदतं बर्हिरेदम्॥ नियुवाना नियुतः स्पार्हवीरा इन्द्रवायू सरथं यातमर्वाक्। इदं हि वां प्रभृतं मध्वो अग्रमध प्रीणाना वि मुमुक्तमस्मे॥ (ऋ० ७।९१।४-६) प्रति वां सूर उदिते सूक्तैर्मित्रं हुवे वरुणं पूतदक्षम्। ययोरसुर्यमक्षितं ज्येष्ठं विश्वस्य यामन्नाचिता जिगत्नू॥ ता हि देवानामसुरो तावर्या ता नः क्षितीः करतमूर्जयन्तीः। अश्याम मित्रावरुणा वयं वां द्यावा च यत्र पीपयन्नहा च॥ ता भूरिपाशावनृतस्य सेतू दुरत्येतू रिपवे मर्त्याय। ऋतस्य मित्रावरुणा पथा वामपो न नावा दुरिता तरेम॥ (ऋ० ७।६५।१-३) धेनुः प्रत्नस्य काम्यं दुहानाऽन्तः पुत्रश्चरति दक्षिणायाः। आ द्योतनिं वहति शुभ्रयामोषसः स्तोमो अश्विनावजीगः॥ सुयुग् वहन्ति प्रति वामृतेनोर्ध्वा भवन्ति पितरेव मेधाः। जरेथा मस्मद् वि परोर्मनीषां युवोरवश्चकृमा पातमर्वाक्॥ सुयुग्भिरश्वैः सुवृता रथेन दस्राविमं शृणुतं श्लोकमद्रेः। किमङ्ग वां प्रत्यवर्तिं गमिष्ठाऽऽहुर्विप्रासो अश्विना पुराजाः॥ (ऋ० ३।५८।१-३)