अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1015, कुल 2600 में से
संदर्भ में पढ़ें८६६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० ४ अ० १ सू० ६ भाष्यप्रकाशः। इव तन्तुभिः प्रधानजैः स्वभावतो देव एकः समावृणोति स नो दधातु ब्रह्माव्ययम्' इत्यादिषु वाक्यशेषेषु शरीरेण रूपकेण दृष्टान्तेन विन्यस्तमुपन्यस्तं यन्मायाख्यं प्रधानं तस्यैवाजावाक्ये ग्रहणं, न तु स्वातन्त्र्येण परेच्छाननुविधायित्वरूपेण । अतो न तस्याः स्वातन्त्र्येण कारणत्वमिति व्याख्याय, त्रयाणामेवेति सूत्रे त्रयाणामपीति पाठमङ्गीकृत्य प्राज्ञस्य प्रकरणित्वसमर्थनार्थं तदित्याशयेन तत्सूत्रमेवं व्याचख्युः । भोक्ता भोग्यं प्रेरितारं च मत्वेति श्रुत्युक्तानां त्रयाणां पुरुषप्रकृतिदेवतावार्गाणामपि वाक्योपक्रमे उपन्यासः, प्रतिवचनं, तत्प्रश्नश्च प्रसज्येयाताम् । न ह्येवं दृश्यते । किं कारणं ब्रह्म कुतः स्म जाता इत्यादिना केवलब्रह्मण एव प्रश्नदर्शनात् । 'यः कारणानि निखिलानि तानि कालात्मयुक्तान्यधितिष्ठत्येकः' इत्यादिना केवलब्रह्मण एवोपन्यास- दर्शनाच्चेति । तदसङ्गतम् । अपिशब्दघटितपाठस्य क्वाप्यदर्शनात् । सांख्येऽपि देवतावर्गस्याधिदैवतत्वेन भोग्यकोटिपतिततया पृथग् ज्ञेयत्वाऽनङ्गीकारेण त्रयाणां प्रश्नाद्यापत्तेरपि दातुमशक्यत्वात् । किं कारणमिति श्रुतावपि विचारस्यैव दर्शनेन तत्र प्रश्नत्वायोगात्, 'ते ध्यानयोगानुगता अपश्यन्' इत्यग्रेऽपि दर्शनकथनेन प्रतिवचनादर्शनाच्च । एवं पूर्वोत्तरग्रन्थेऽप्यवगन्तव्यमिति दिक् ॥ ६ ॥ रश्मिः। प्रधानजैरिति सत्त्वरजस्तमोभिः । देवः कालः । एवं कालकर्मस्वभावा उक्ताः । कर्म प्रधानमज्ञानं मायेति यावत् । समावृणोतीति सम्यक् भजति विभागं करोति, वृङ् संभक्तौ क्या. आ. से. विकरणोपग्रहयोर्व्यत्ययः । वृञ् वरणे स्वा. उ. से. वा अर्थः । स एव वृञ् वरणे इत्यत्र वृङ् संभक्तावित्यस्य ल्युडन्तस्य रूपमिति । नोऽस्मान् धारयत्विति दधात्वित्यस्यार्थः । वाक्येति संदिग्धेपु वाक्यशेषात् । आदिपदार्थः स्पष्टः । शरीरेणेति तन्तुनामशरीरेण । तदिति सूत्रम् । इत्यादीत्यादिना । तमेकनेममित्यादिः तन्मतसमासावितिपदम् । भोग्येति प्रकृतिकोटिपतिततया । पृथक्ज्ञेयत्वेति । यथाहूः अपवादमात्रमबुद्धानामिति कापिलसांख्यप्रवचनसूत्रवृत्तौ । देवतावर्गः प्रधानकार्याध्याये निरूपितः इति प्रधानात्पृथक् ज्ञेयत्वानङ्गीकारः । विचारस्येति मननस्य । प्रश्न- स्येति । ननु किं कुतः इति प्रश्नस्य वाचके पदे स्तः इति चेत्तत्राहूः ते ध्यानेति । 'ते ध्यानयोगानुगता अपश्यन् देवात्मशक्तिं स्वगुणैर्निगूढाम्' इति श्रुतिः । अत्रात्मशक्तिस्तत्त्वशक्तिः स्वस्वकार्यनिर्माण- सामर्थ्यम् । तद्दर्शनकथनेन ब्रह्मत्वावधित्वकरणत्वाधिकरणत्वाना मदर्शनेन यद्धर्मप्रकारकयद्विषयकप्रश्नः तद्धर्मावच्छिन्नतदुद्देश्यकं लक्षणादिनिरूपणमिति व्युत्पत्तेः । को घटः कम्बुग्रीवादिमान् घटः इत्या- दिषु दृष्टायाः प्रकृतेः अभावादप्रश्नत्वादतः किमिति प्रश्नः । कुत इत्यवधिकरणाब्धन्तर्गत एकापेक्षया बहूनामनुग्रहो न्याय्य इति प्रश्नं न्यकृत्य 'कालः स्वभावो नियतिर्यदृच्छा भूतानि योनिः पुरुष इति चिन्त्यम्' इति श्रुत्युक्तमननं विचाररूपमङ्गीकृतमिति बोध्यम् । किं च वेदान्तत्वेन किं कारणं ब्रह्मेत्यत्र किंपदस्य योग आवश्यकः । स च कै शब्दे भ्वा. प. अ. कायतेर्डिमिः शब्दरूपं शब्दकर्तृ वा ब्रह्म कारणमित्यर्थात्, कुतः पञ्चम्यर्थाज्जाताः, केन शब्दकर्ता, क्व शब्दकर्तरि, इत्यर्थाच्च न प्रश्नार्थत्वम् । अतः पुरुष इति चिन्त्यमित्युक्तचिन्तनं मननात्मकमुच्यते न प्रश्नः तदुक्तं विचारस्यै- वेत्यनेन । पूर्वोत्तरेति 'ज्ञेयत्वावचनाच्च' इति सूत्रस्य पूर्वोत्तरग्रन्थे यद्वा पूर्वस्यानुमानिकसूत्रस्योत्तरग्रन्थे 'सूक्ष्मं तु तदर्हत्वात्' इत्यादिग्रन्थे ॥ ६ ॥ १. प्रश्नस्येति रश्मिपाठः । 918