भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1017, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1017

८६८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० १ पा० ४ अ० २ सू० ८ चमसवदविशेषात् ॥ ८ ॥ (१।४।२) पुनः श्रुत्यन्तरेण प्रत्यवस्थितं निराकर्तुमधिकरणान्तरमारभते । ननु प्र- करणवशात् पूर्वमस्मदुक्तोऽर्थोऽन्यथा वर्णितः । यत्र प्रकरणापेक्षैव नास्ति मन्त्रे तदस्माकं मूलम् । 'अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजाः सृजमानां सरूपाः । अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः' ॥ इति । यद्यपीदं श्वेताश्वतरोपनिषदि चतुर्थाध्याये विद्यमानत्वात् पूर्वापर- भाष्यप्रकाशः । चमसवदविशेषात् ॥ ८ ॥ अधिकरणप्रयोजनमाहुः श्रुत्यन्तरेणेत्यादि । अत्रापि साध्यमानुमानिके श्रौतत्वाभावरूपमेव । अजामन्त्रस्थोऽजाशब्दस्तु पूर्वपक्षोत्थाने द्वारमतः संशयं तद्बीजं चानुल्लिख्य पूर्वपक्षं विषयवाक्यं चाहुः नन्वित्यादि । नन्वस्य मन्त्रस्य श्वेताश्वतरोपनिषच्चतुर्थाध्याये, 'य एको वर्णो बहुधा शक्तियोगाद् वर्णाननेकान्निहितार्थो दधाति' इत्यादिमन्त्रैर्मन्त्र प्रकृत्यैव पठितत्वाद् उपनिषदारम्भेऽपि, किं कारणं ब्रह्मेति ब्रह्मण एव प्रकृतत्वात् कथमस्य कारणानपेक्षत्वमित्याकाङ्क्षायां तदनपेक्षतामुपपादयति यद्यपीत्यादि । तथाच यथा प्रणवादिमन्त्राणामर्थान्तरवाचकानां प्रकृतोपयोगः 'इमं मे वरुण' इत्यादीनां च रश्मिः । चमसवदविशेषात् ॥ ८ ॥ अत्रापीति अपिः समुच्चये । आनुमानिकं श्रौतत्वाभावव- च्छ्रुतौ शरीररूपकविन्यस्तगृहीतैस्तदग्रहणात् घटवत् । यत्र यत्रान्यगृहीतैस्तदग्रहणं तत्र तत्र तदप्रतिपाद्यत्वमिति व्याप्तिः । प्रतियोगिता हेतुतावच्छेदकसंबन्धः, विशेषणविशेष्यता च साध्यतावच्छेदकसंबन्धः इति समुच्चयः । अत्रेति सूत्रे । आनुमानिकं श्रौतत्वाभाववत् चमसवद- विशेषात् इति । अत इति । उपस्थितत्वात् । पूर्वपक्षस्यान्त्याभिमतत्वेन सिद्धान्तस्पर्धित्वात् संशयोन्नायकत्वं तत एव तद्बीजोन्नायकत्वम् । अतो विषयवाक्यं पूर्वमनुक्त्वा पूर्वपक्षो विषयवाक्या- त्पूर्वमुपात्तः । भाष्ये । प्रत्यवस्थितमिति सांख्यवादिनाम् । प्रकरणेति 'वदतीति चेन्न प्राज्ञो हि प्रकरणात्' । इति सूत्रे । अजामिति न जायते इत्यजा तां मूलप्रकृतिरविकृतिरित्यभ्युपगमात् । ननु रूढिरत्र छागस्य स्त्रियां प्रजापदस्य रूढिर्योगमपहरतीति चेन्न विद्याप्रकरणात् । लोहितं रजो रञ्जना- त्मकत्वात्, शुक्लं सत्त्वं प्रकाशात्मकत्वात्, कृष्णं तमः आवरणात्मकत्वात्, तेषां साम्यावस्थाऽव- यवधर्मैर्व्यपदिश्यते । लोहितशुक्लकृष्णेति सरूपास्त्रैगुण्याः, अजोऽसङ्गः पुरुषः, जुषमाणः सेवमानः । अनुशेते तामेव । प्रकृतिमध्यासेनात्मत्वेनोपगम्य सुखी दुःखी मूढोऽहमित्यविवेकतया संसरति । अन्यः पुनरजः पुरुष उत्पन्नविवेकज्ञानो विरक्तो जहात्येनां प्रकृतिं भुक्तभोगां कृतभोगापवर्गां परित्यजति मुच्यत इत्यर्थः । प्रकृते । एको वर्ण इति प्रणवः । वर्णान् अकारेकारमकारादीन् घटः पटः कुम्भं कुसूलं महाविष्णुः गोरोचनकमित्येवमनेकान् वर्णान् । बहुधा शक्तिलक्षणा लक्षितलक्षणा योगो रूढिर्योगरूढिरिति नामभिः बहुधा शक्तियोगाज्जिहिता अर्था शब्देषु येन । ब्रह्मेति एको वर्णः प्रणव इति मन्त्र प्रकृत्य । तदनपेति प्रकरणानपेक्षताम् । यद्यपीत्यादीति । भाष्ये । पूर्वापरसंबद्धमिति मन्त्रज्ञानम् । मन्त्रविधेति यावत् । प्रणवेति पूर्वकाण्डे हरिः ॐ इत्यस्य पूर्वापरसंबद्धस्यार्थस्याग्रे हरिः ओमित्युक्त्वोक्ते ग्रन्थे न नियमः तदीयोपक्रमाद्यधीनत्वात् । तथा च 920