अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1019, कुल 2600 में से
संदर्भ में पढ़ेंAn accurate line-by-line transcription of the text in the image into Markdown Devanagari:
भवत्यतः समुदायशक्तिरंहसीति रूढिः योगरूढं पदं यद्विद्धिते विशो यथेतीमं मे वरुण इति मन्त्राग्रे व्याख्येयम् । अत्राप्याप्ताम वरुणप्रियासः इत्युपसंहारादुपक्रमस्य तु विचारात्तस्य यज्ञ ऋध्यते यस्य हविरितिच्यते इत्यस्य यज्ञवृद्ध्यर्थत्वात् ।। प्रकरणं यज्ञवृद्धेर्वरुणप्रीतेश्च तदुभयनिरपेक्षेण सूर्योपस्थाने मित्रस्येति मन्त्रः । न च वरुणोपस्थानायास्त्विति शङ्क्यम् । ततः सूर्योपस्थानं तत्र मन्त्राः मित्रस्ये- त्यादयः इति संध्याव्याख्यानात् । तत इत्यस्य गायत्रीजपानन्तरमित्यर्थः । आसत्येनेति मन्त्रो व्याख्यायते । सत्येन सह वर्तमानः सत्येन व्यावहारिकेनेत्यन्ये रजसान्तरिक्षलोकेन लोका रजांस्युच्यन्ते इति यास्कोक्तेः । सविता सूर्योश्वरो वा अमृतमानन्दं देवं वा मर्त्यं मनुष्यं कृष्णं वा आसमन्तात् नितरां वेशयन् मित्रत्वादधिकारित्वादक्षरस्य लोकत्वात्