अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1025, कुल 2600 में से
संदर्भ में पढ़ें८७६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० १ पा० ४ अ० २ सू० ९ परिहरति तुशब्दः । अजाशब्देन ज्योतिरेवोच्यते । यथा छाजा अल्पदोग्ध्री तथैयं नश्वरसुखदात्री अग्निसूर्यसोमविद्युद्रूपा ब्रह्मणो हंसोक्तचरणरूपा । भग- वत्कार्यांशरूपत्वात् 'तासां त्रिवृतं त्रिवृतमेकैकां करवाणि' इति श्रुतेश्च प्रथमोत्पन्ना भाष्यप्रकाशः। नन्वजाशब्दार्थानिर्द्धारे कथं तत्परिहार इत्यत आहुः अजेत्यादि । तर्ह्यजाशब्दप्रयोगः कुत इत्यत आहुः यथेत्यादि । तथाच 'पश्य नीलोत्पलद्वन्द्वात्रिःसरन्ति शिताः शराः' इति- वन्निगीर्याध्यवसानेन तथात्वबोधनाय प्रयोग इत्यर्थः । ननु किं तज्ज्योतिर्देवमुच्यत इत्यत आहुः अग्नीत्यादि । अग्निसूर्यसोमविद्युद्रूपत्वाज्ज्योतिः । रूपादिर्ति पाठे भावप्रधानो निर्देशः