अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1027, कुल 2600 में से
संदर्भ में पढ़ेंप्रकरणे न स्पष्ट इति निरूपयति । तथाहि श्रुत्यन्तरे स्पष्टमेव अधीयत एके 'यदग्ने रोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत् कृष्णं तदन्नस्य' इति । एवमग्रेऽपि कलात्रये । अनेन जीवेनात्मनेति जीवब्रह्मणोरुपानुप्रवेशः । बीजेऽपि त्रैविध्यमिति सरूपत्वम् । भगवतोऽभोगे हेतुः जीवेन भुक्तभोगामिति । तस्मात् प्रकृतेऽपि चमसवच्छ्रुतावेवार्थकथनान्न सांख्यमतप्रतिपादकत्वम् ॥ ९ ॥ भाष्यप्रकाशः । नन्वजाया ज्योतिष्टेन निरूपणमयुक्तम् । छान्दोग्ये तेजस उत्पत्तिकथने त्रिरूपताया अनुक्तत्वात् । भाष्ये च हंसोक्तचरणरूपत्वेन व्याख्यानमयुक्तम् । तस्यापि तत्रानुक्तत्वादित्याशङ्क्येन सूत्रशेषमवतारयन्ति अत्रेत्यादि । अत्र प्रथमकार्यप्रकरणे त्रिरूपत्वं, हंसोक्तचरणो न स्पष्ट इति हेतोस्तत्रत्यं श्रुत्यन्तरं दर्शयतीत्यर्थः । श्रुतिमाहुः यदग्नेरित्यादि । ननु यदि तेजोरूपा देवताभिप्रेता तदा सूत्रकृता तेजःपदमेव कुतो नोक्तमित्यत आहुः एवमित्यादि । कलात्रय इति सूर्यसोमविद्युद्रूपे । तथाचैतदग्रे, यदादित्यस्य रोहितं रूपं यच्चन्द्रमसो यद् विद्युत इत्यादिनिरू- पणात् तत्र हंसोक्तपादरूपतादिधर्मनिरूपणार्थं ज्योतिःपदं प्रयुक्तं, न तेजःपदमित्यर्थः । अस्यां श्रुतौ जीवब्रह्मणी कुत्रोक्ते इत्याकाङ्क्षायामाहुः अनेनेत्यादि । जीवेनेति सहार्थतृतीयाऽऽत्मनेति करणतृतीया च बोधिते इत्यर्थः । सरूपत्वकथनप्रयोजनमाहुः बीजेऽपीत्यादि । 'बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम्' इति वाक्याद् बीजं भगवान् । तत्रापि सच्चिदानन्दरूपत्वात् त्रैविध्यमस्तीत्यतः प्रजासरूपत्वम् । तथाच कार्यकारणयोः सालक्षण्यस्यौत्सर्गिकत्वेनार्थात् प्राप्ता- वपि यत् सरूपत्वकथनं तत् प्रजानां तेजोऽबन्नात्मकत्वेऽपि बीजधर्मस्य सच्चिदानन्दरूपत्वस्य ज्ञापनार्थमित्यर्थः । तस्मादिति यस्मादेवं वाक्यतात्पर्यं तस्मात् ॥ ९ ॥ रश्मिः । छान्दोग्ये । अनुक्तेरिति उक्तत्वेऽप्यग्रिमग्रन्थावतरणायाहार्यज्ञानविषयत्वं कृतानुक्तत्वादित्युक्तम् । एवं पूर्वत्रापि ज्ञेयम् । तत्रत्यमिति छान्दोग्ये भवं जाताद्यर्थेऽव्ययात्यप् । श्वेताश्वतरश्रुतेरन्या श्रुतिः श्रुत्यन्तरम् । तत्र छान्दोग्ये जातादिः तत्रत्यं तद्दर्शयति तत्रेति छान्दोग्ये । हंसोक्तेति पादिना निरूपता । अस्यामिति श्वेताश्वतरव्याख्यानरूपायाम् । छान्दोग्यश्रुतौ जीवब्रह्मणी उत्तरार्धेऽज- द्वयवाक्ये कुत्रेति छलप्रश्नः । सरूपेति व्याख्येयश्रुतौ 'सरूपा' इतिपदेन तेषां खल्वेषां भूतानां त्रीण्येव बीजानिति छान्दोग्योपबृंहितां गीतामाहुः बीजं मामिति । सच्चिदिति सद्रोहितं परिशेषात्, चित् शुक्लं प्रकाशकत्वात्, आनन्दः कृष्णस्तमोजनकत्वात्, तमश्च कृष्णत्वात् । बीजधर्मेति तेन समवायित्वं स्फोरितम् । निमित्तत्वं सतः । ज्योतिषि कार्ये सतोऽभिन्ननिमित्तोपा- दानत्वम् । एवमिति उक्तप्रकारेण छान्दोग्यश्रुतिषु व्याख्यानतात्पर्यं श्वेताश्वतरीया- जामेकामिति श्रुतिवाक्यतात्पर्यम् । भाष्ये । श्रुतावेवेत्यत्रैकवचनमविवक्षितम् । ताश्च श्रुतयः पूर्वमर्यादानुरोधेन सक्रमा अत्र प्रोच्यन्ते 'सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्, तद्धैक आहुर- सदेवेदमग्र आसीत् एकमेवाद्वितीयम् । तदैक्षत बहु स्यां प्रजायेयेति, तत्तेजोऽसृजत तदैक्षत बहु स्यां प्रजायेयेति, तदपोऽसृजत तस्माद्यत्र क च शोचति स्वेदति वा पुरुषः तेजस एव तदध्यापो जा- यन्ते, ता आप ऐक्षन्त बह्वयः स्याम प्रजायेमहि इति, ताः अन्नमसृजन्त तस्माद्यत्र क च वर्षति तदेव भूयिष्ठमन्नं भवतस्त्याः एव तदध्यान्नाद्यं जायते । तेषां खल्वेषां भूतानां त्रीण्येव बीजानि भवन्त्यण्डजं