भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1033, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1033

८८४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० ४ अ० २ सू० १० सबत्सा स्वामिहिता तथेयमिति उपदेशपदात् तथोपासनमभिप्रेतम् । चकारात् परोक्षवादोऽपि देवस्य हिताय । यथा आदित्यो वै देवमधु, वाचं धेनुमुपासीत । द्युलोकादीनां चाग्नित्वं पञ्चाग्निविद्यायां तथा प्रकृतेऽप्यविरोधः । योगरूढिव्यति- रेकेणाप्येषा वेदे शब्दप्रवृत्तिः । तस्मादजामात्रेण न सांख्यमतसिद्धिः ॥ १० ॥ इति प्रथमाध्याये चतुर्थपादे द्वितीयं त्रिसूत्रं चमसाधिकरणम् ॥ २ ॥ भाष्यप्रकाशः । 'समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमानः' इत्यग्रिमग्रन्थेन तथावसायात् । एवं मधुविद्यायामपि, दृष्ट्वैव तृप्यन्तीति तृप्तिलिङ्गादादित्यस्य मधुत्वम् । नच विरोधः । सैषा त्रय्येव विद्या तपतिीति श्रुत्या शब्दात्मकत्ववद् रसात्मकत्वे

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित) · पृष्ठ 1033, कुल 2600 में से · BharatKosha