अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1036, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ८८७ भाष्यप्रकाशः । तत्संख्याऽभावात् समासानुपपत्तिः । अनेन सप्तमीसमासोऽपि नेत्युक्तप्रायम् । एवमन्येऽपि बोध्याः । यदि चाद्यस्य पञ्चशब्दस्य संख्येयपरत्वेन द्वितीयस्य संख्यापरत्वेन सप्तमीसमासो भाष्यते, तदा पञ्चसंख्यासंख्येयेषु पञ्चसंख्येत्यर्थलाभादमीषायाः संख्याया असिद्ध्या समास- वैयर्थ्यम् । यदि च पूर्ववदाद्यस्य संख्यार्थत्वं, द्वितीयस्य संख्येयार्थत्वं, तदापि षष्ठीसमासे संख्येयबोधकपदादेव विशेषणीभूतसंख्यालाभेन पूर्वपदस्यानन्वयः । सप्तमीसमासे तु संख्यायां संख्येयाभावादुत्तरपदस्यानन्वयः । न चात्रासूर्यंपश्या राजदारा इतिवदसमर्थसमास एवास्त्विति वाच्यम् । अत्र 'असूर्यँललाटयोर्दृशितपोः' इतिवत् तादृशसमासज्ञापकाभावादिति । एतेनान्येऽप्य- रश्मिः । संख्यायामिति