अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1039, कुल 2600 में से
संदर्भ में पढ़ेंनानाभावा एव स्वीकर्तव्याः । यद्यपि भूततन्मात्राकूतिचित्त्यन्तःस्थितत्वधर्मा वक्तुं शक्यन्ते । तथापि न ते तथोक्तवन्तः । भाष्यप्रकाशः । मोक्षाधिकारान्मुमुक्षुभिः कपिलस्मृतिसिद्धानि पञ्चविंशतितत्त्वानि ग्राह्याणीति तन्मतस्यापि श्रौतत्वकल्पनं मूढग्राह इतीदं सर्वं संख्योपसंग्रहादपीत्यनेनोत्थाप्य, नेत्यनेन निषेधन्ति । तत्र हेतुर्नानाभावादिति । तद् व्याकुर्वन्ति तथापीत्यादि । एवं बाधेऽप्युक्तरीत्या मूढग्राहेण संख्योपसंग्रहेऽपि जनशब्दवाच्यानां तत्त्वानां प्रत्यभिज्ञानार्थं तत्पञ्चकनिष्ठपञ्चत्वसंग्राहकेण केन- चिद्धर्मेण सांख्यमते मान्यम् । तादृशश्च धर्मस्तन्मते अप्रसिद्ध इति न संभवति । तदसंभवे सति पञ्चैव तत्त्वानि स्युर्न तु पञ्चपञ्च । अतस्तेषां संख्यासंग्रहस्यावश्यकत्वात् पञ्चकनिष्ठपञ्चत्वसंग्राहका धर्मा नानाभावा