अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1042, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ८९३ प्राणादयो वाक्यशेषात् ॥ १२ ॥ नन्वद्वयं मन्त्रस्यार्थो वक्तव्यः । तदनुरोधेन लक्षणयापि ज्योतिःशास्त्रवत् पञ्चपञ्चशब्दः पञ्चविंशतिवाचकत्या परिकल्प्यः । स्पष्टमाहात्म्यार्थमात्माका- शयोराधाराधेयभावः प्रदर्शितस्तन्त्रयोरेव । अतो मन्त्रे तन्मतसिद्धिरित्याशङ्क्य भाष्यप्रकाशः। किंवेत्यादि । आकाश आत्मा चेत्येतयोरतिरेकाज्जनशब्दोक्तेभ्य आधिक्यात् संख्याविरोघे सति न तन्मतसिद्धिरित्यर्थः ॥ ११ ॥ प्राणादयो वाक्यशेषात् ॥ १२ ॥ सूत्रमवतारयन्ति नन्वित्यादि । अयमर्थः । पञ्चविंशतिसंख्योपसंग्रहे मन्त्रवर्णविरोधो दोषत्वेनोक्तः । सोऽस्माभिः परिह्रियते । यतो मन्त्रस्यार्थो भवतामस्माकं चावश्यं वक्तव्यः । तत्र भवन्मते आत्मनि प्रतिष्ठिता द्विपञ्चसंख्याकाः पञ्चविंशतिसंख्याका वा एते जनाः, पञ्चसंख्याका वा एते पञ्चजना इति निश्चेतुमशक्यत्वाद- स्मन्मते तु पञ्चविंशतिसंख्याकानां तत्त्वानां निश्चितत्वादस्मन्मतमेव ज्यायः । एवं सति तदनुरो- धेन यथा, 'पञ्च सप्त च वर्षाणि न ववर्ष शतक्रतुः' इत्यत्र द्वादशसंख्याघटकतया पञ्च सप्तेति पदद्वयेऽवयवद्वारेण समुदाये लक्षणा । तथात्र पञ्चविंशतिसंख्याघटके पञ्चेतिपदद्वये समुदाय- रश्मिः । रेकादिति हेतुम् । संख्येति । सप्तविंशतिसंख्यापत्त्या पञ्चविंशतिसंख्याविरोध इति । न चाकाशः स्थूलभूतमात्मापुरुष इति कुतोतिरेक इति चेन्न यस्मिन् पञ्चपञ्चजना इति श्रुतौ यच्छब्दार्थ आत्माकाशश्च तयोरतिरेक आधिक्यं पुनरुक्त्यापत्तेः । भाष्ये श्रुतावयमिति यस्मिन् पञ्चपञ्चजना इति श्रुतौ अयं पञ्चविंशतिसंख्याप्रतिरूपोर्थः । प्रतीयत इति आत्माकाशयोः पञ्चविंशतिसंख्यातो- तिरेकसातिरिक्तत्व सत्वात् । तदाहुः सौत्रं हेतुम् । अतिरेकादिति आकाश इति अनेन भाष्येण सौत्रचकारार्थार्थकथनेन च ज्ञायते नायं श्रुत्यर्थ इति भाष्यमतिरेकाच्चेति सौत्रचकारार्थ- प्रतिपादकमिति । तथा चानुक्तसमुच्चयार्थकश्चकार इति भावः । आकाशश्चेति सौत्रचकारादात्मा । नन्वात्मग्रहणे किं बीजमत आहुः यस्मिन्निति । ननु कथमेकस्याधाराधेयभाव इति चेन्न 'अदृश्यत्वा- दिगुणको धर्मोक्तेः' इत्यधिकरणे एतादृश एव ब्रह्मवाद इति भाष्यात् ॥ ११ ॥ प्राणादयो वाक्यशेषात् ॥ १२ ॥ ननु सत्यमुक्तं मन्त्रवर्णे सप्तविंशतिसंख्या वर्तत इति । तथाप्यस्माकं शास्त्रत्वाच्छुतार्थो वक्तव्य एवेति तन्मर्यान्तरेण प्रत्यवतिष्ठन्तं सांख्यं प्रत्याहुः भाष्ये इत्याशयेनाहुः अयमिति । मन्त्रवर्णो यस्मिन् पञ्चपञ्चजना इति । द्वीति । द्वौ च ते पञ्चेति विग्रहे 'तत्पुरुषः समानाधिकरणः कर्मधारयः' संख्यापूर्वो द्विगुरित्युभत्र चरितार्थः । दशसंख्याका इत्यर्थः । पञ्चजनाः पुमांसः । ज्योतिःशास्त्रवदिति भाष्यं विवृण्वन्ति स्म यथेति । द्वादशवर्षाणि इन्द्रो न ववर्षेत्यर्थः । द्वादशसंख्या घटयतीति द्वादशसंख्याघटकपदद्वयम् । अवेति । अत्र पञ्चपदेन पञ्चानां संख्येयानां वर्षाणामुपस्थितिः सप्तपदेन सप्तानां संख्येयानां वर्षाणामुपस्थितिः समवायेन कीदृशेनावयवौ पञ्चसप्तरूपौ, द्वारे अभ्युपायौ निर्गमौ यस्य 'द्वारं निर्गमे अभ्युपाये' इति हेमः । समुदाये द्वादशसंख्येयरूपे लक्षणा । अवयवद्वयसमवायरूपा । समुदाय इति । पञ्चविंशतिसंख्येयरूपे लक्षणा पञ्चावयवक- समवायसंबन्धरूपा तथा । परिकल्प्य इति भाष्येणान्वयः । भाष्ये लक्षणयापीलपिपदं समुच्चये तदर्थ- ११३ ब्र० सू० २० 945