अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1046, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ८९५ 'संशयोऽथ विपर्यासो निश्चयः स्मृतिरेव च । स्वाप इत्युच्यते बुद्धेर्लक्षणं वृत्तितः पृथक्' ॥ इति । तेषां तत्तत्प्रकारकं स्वकार्यजननं न स्वतः किंतु भगवत इति शून्यो- रैकार्थ्यत्वे सर्वं संगतं स्यात् । खण्डत्वाच्च शेषत्वम् । सर्वप्रवर्तकत्वाद् भगवतो न माहात्म्यविरोधः । तत्र प्राणशब्देन त्वग्घ्राणप्राणा गृहीताः । रसना चान्ने भाष्यप्रकाशः । न वाक्यशेषत्वानुपपत्तिरित्यर्थः । ननु प्राणादिप्रवर्तकत्वं जीवस्याप्यस्तीति भगवन्माहात्म्यमत्र वाक्यशेषेऽपि न स्फुटतीति तद्विरोधात् कथमस्य ब्रह्मवाक्यत्वमित्यत आहुः सर्वेत्यादि । नन्वत्र पञ्चैव प्राणादयः प्रतीयन्ते, नान्ये इति कथमत्र सर्वप्रवर्तकत्वसिद्धिरित्यतः पञ्चसु सर्वनिवेशं व्युत्पादयन्ति तत्रेत्यादि । प्राणशब्दो मुख्यप्राणवाचकः । स च वायुरूप इति प्राणशब्देन वायुविकारभूता त्वक्, तत्सहभूतं घ्राणं मुख्यप्राणस्य स्वान्तर्भूता अन्ये अपानादयः प्राणा गृहीताः । रसना चान्ने प्रतिष्ठिता 'तद्भिरन्नस्य वर्धते' इति वाक्यादत्यन्तान्ना- रश्मिः । यस्मिन् पञ्चपञ्चेति वाक्यस्य साकाङ्क्षत्वेन प्राणस्य प्राणमिति वाक्यं पञ्चसंख्यापूरकं यावत् तावतो खण्डत्वं पूर्ववाक्यशकलत्वं तस्माच्च शेषत्वमतो नैव वाक्यशेषत्वानुपपत्तिः । एवकारो न- शब्देनान्वेति । भाष्ये चकारसान्वयार्थलाभावात् । नैवशब्दार्थकत्वम् । जीवस्येति 'तमुत्क्रामन्तं प्राणोऽनूत्क्रामति प्राणमनूत्क्रामन्त१सर्व्वे प्राणा अनूत्क्रामन्ति' इति श्रुतेः । तं जीवम् । स्फुटतीति तु. प. स्फुट विकसन इत्यस्य रूपम् । स्फोटतीति तु स्फुट विशरणे भ्वा. प. से. रूपम् । धातूनामनेकार्थत्वात् प्रयुक्तमन्यत्रास्माभिः स्फुट विकसन इत्यस्यैव रूपं नामधातुत्वाद्वा तत्रायुक्तम् । सर्वेत्यादीति सर्वान्तर्गतो जीवोपि । तेन जीवस्याणुत्वान्न व्यापकत्वं तत एव न प्राणादिप्रवर्तकत्व- मित्यग्रे वक्ष्यते । प्राणादीनां सर्ववाचकत्वं व्युत्पादयन्ति प्राणशब्द इति । प्राणपदे वर्णविकारात् घ्राणवाचकं घ्राणपदमनुक्त्वा प्राणपदोक्त्या प्राणान् पञ्चेन्द्रियाणि चानुक्तानि सूचयति तत्र सूचितार्थ उक्तः प्राणशब्द इति वाचको व्यञ्जनायाः । त्वक् स्वरूपमाहुः वाय्वित्यादि तथा च सूत्रे प्राणश्च प्राणश्च प्राणश्च प्राणश्च प्राणश्च प्राणाः सरूपैकशेषः । व्यञ्जनापक्षे श्रुतौ प्राणस्येत्येकवचनं प्राणापेक्षं जात्यभिप्रायेण व्यञ्जनापक्षे । तत्र द्वितीयप्राणशब्दस्त्वचो वाचकः प्राणपदे हल्विकारा घ्राणादय इति भाष्यात् । तस्याभिधावृत्तिमर्पणे तदाहुः तत्सहेति । ततोभिधावृत्त्या घ्राणं घ्राणपद- वाच्यं प्रसिद्धं हेति । स भगवान् श्रुतिप्रसिद्धः प्राणमिति द्वितीयान्तमुक्तं तदर्थ उक्तः । पुनः मुख्यार्थमाहुः मुख्येति । रसनेति भाष्यार्थमाहुः रसनेति रस आस्वादने रसाः षट् मधुराम्ल- लवणकटुकषायतिक्तभेदात् । रस्यन्ते ये इति रसाः चु. प. से. कर्मणि घञ् । तदुक्तं प्रश्नोपनिषदि रसं च रसनीयं चेत्युक्त्वा एष पुरुषः परेश्वरेत्युक्तम् । तत्र रसो रसना रसनीयमन्नं पुरुषरूपं यदक्षरमुक्तं तथाप्यक्षरस्य साधारणाश्रयत्वात् संनिहितान्नत्यागे मानाभावाद्विशेषाश्रयत्वमन्नस्य न जिह्वायाः श्रुतावग्रहणात् । न चान्नं पृथिवी सा चान्नं जिह्वेति शङ्क्यम् । पुराणमतत्वात् । तृतीयस्य षोडश्याये । 'निर्मिन्नं तालु वरुणो लोकपालोऽविशद्धरेः । जिह्वयांशेन च रसं वयासो प्रतिपद्यते' ॥ इति । 949