अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1050, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ९०१ भाष्यप्रकाशः। शंकराचार्यास्तु, 'ते वा एते पञ्च ब्रह्मपुरुषाः' इत्यत्र पञ्चसु प्राणेषु प्रयुक्तत्वात् 'प्राणो हि पिता प्राणो माता' इत्यत्रापि पित्रादिरूपेण प्राणस्यैवोक्तत्वाच्च जनसंबन्धेन प्राणादीनां जनशब्द- वाच्ये सिद्धे दिक्संख्येति संज्ञासमासबलात् पञ्चजनेति समुदायस्यापि प्राणादिषु रूढत्वमविरुद्ध- मित्याहुः तच्चिन्त्यम् । ते वा इति श्रुतौ जनवचनस्य पुरुषपदस्य प्राणापानादिषु प्रयुक्तत्वे- रश्मिः। नेन्न पूर्वपादे 'श्रुतस तदनादरश्रवणात्' इति सूत्रे दत्तोत्तरत्वात् । ननु प्रकृते किं सूचकमिति चेन्न वाक्यशेषस्यैव योगसूचकत्वात् । ननु कर्म योगसूचकत्वमिति चेन्न भाष्यार्थः स्फुटं नोक्तोतोच्यते । शांकरमतमनुवदति स्म प्राणादय इति । ननु पञ्चजना इत्यत्र 'दिक्संख्ये संज्ञायाम्' इति सूत्रेण समासः स न संभवति पञ्चेत्यस्य संज्ञाशब्दत्वाभावात् । इत्याशङ्क्याहुः संज्ञाशब्दा इति । तथा च शंकरभाष्यं पञ्चजनशब्दः समासान्त्वात्स्यानादवगते संज्ञाभावः संज्ञाकाङ्क्षी वाक्यशेषसमभिव्याहृतेषु प्राणादिषु वर्तिष्यते इति । जातिगुणक्रियायदृच्छाशब्देषु यदृच्छाशब्दाः गौः शुक्लः चलति डित्थः इति चतुष्टयशब्दाः न च जातिशब्दाः । संज्ञारूपो यदृच्छात्मक इति काव्यप्रकाशात् । तथा च पञ्चक इत्युक्तौ प्राणादयः पञ्चेषूत्तरे संज्ञाशब्दत्वेनार्थस्य संज्ञाप्रत्यायकत्वात् पञ्चजना इति समास इति भावः । 'दिक्संख्ये संज्ञायाम्' इति विशेषस्मरणात् संज्ञायामेव पञ्चशब्दस्य जनशब्देन समास इति 'न संख्योपसंग्रहादपि' इति सूत्रस्य शंकरभाष्यं तेन 'संज्ञा पञ्चजनेत्येषा प्राणाद्याः संज्ञिनः श्रुताः' इति वैयासकिन्यायमालायां संज्ञा प्राणादयः इति पञ्चजनास्तु संज्ञिनः इति युक्तः पाठः । पञ्चजनानां विचार्यत्वेन संज्ञि••••दिति ज्ञेयम् । स्वेति यतो 'व्यापारवदसाधारणं कारणं करणं' 'साधकतमं करणं' क्रियासिद्धौ प्रकृष्टोपकारकं करणसंज्ञं स्यात् यद्व्यापाराव्यवधानेन क्रियानिष्पत्तिस्तत्प्रकृष्टमिति शेखरे । माहात्म्यमिति तच्च निबन्धे टीकायाम् । रतिर्देवादिविषयेत्यत्र रतिः स्नेहः देवत्वं माहात्म्य- मित्युक्या देवत्वं सर्वप्रेरकत्वं तस्य विरोधः । प्राणस्य प्राणमित्यादौ द्वितीयप्राणादिपदार्थानुक्तेः । वैयासकिन्यायमालायां प्राणादीनां पञ्चानां साक्षी चिदात्मा द्वितीयप्राणादिशब्दैरभिधीयत इत्युक्तं तच्च निवर्तप्रेरकमिति विरोधः । मल्लामृतवर्षिणीकारोपि द्वितीयप्राणादिपदार्थान्न जगाद । वर्णांगम इति पक्षे एकवर्णागमादन्योऽप्रसिद्धः स्पहमन्यत् । अत्र वाक्यशेषात् पञ्चानां बुद्धिवृत्तीनां जनाः पञ्च प्राणादयः इत्येकवाक्यतया सूचनात् । ननु रूढिः कैरुच्यत इति चेत्तत्राहुः शांकरेति श्रुतिमाहुः ते वा इति । ब्रह्म वायुः पुरुषा जनाः तथा च पञ्च ब्रह्मवायवः पुरुषा जना यद्वा ब्रह्मणो वायवो जना इति श्रुतिवचनव्यक्तेः, पञ्चसु प्राणेषु जनेषु पञ्चजनपदस्य प्रयुक्तत्वात् । जना पुरुष- पदार्थाः स्पष्टा इति नोक्ताः । ब्राह्मणमाहुः प्राणो हीति । जनेति पुरुषपदोक्तजनसंबन्धेन संबन्धश्च प्रवेति भिन्नं पदं यदा तदा भेदः । ब्रह्मणः पुरुषा इति षष्ठीसमासे तु अवयवावयविभावः संबन्धः । प्राणादीनां ब्रह्मपदार्थानां पुरुषपदार्थजनपदवाच्ये इत्यर्थः । संज्ञेति संज्ञाशब्दा रूढा इति भावः । प्राणादिष्विति प्राणचक्षुःश्रोत्रादिषु । अविरुद्धमिति प्रथमप्रयोगस्य श्रुत्युक्तेषु प्राणेषु सत्त्वात् प्राणादिषु वाक्यशेषोक्तेषु रूढत्वं पञ्चजनशब्दस्याविरुद्धम् । तथा च भाष्यम् । कथं पुनरसति प्रयोगे रूढिरभवितुं शक्येति । ननु रत्नप्रभायां प्राणेषु रूढस्य पञ्चजनपदस्य प्राणादिषु लक्षणेत्युक्तमिति रूढत्वं विरुद्धमिति चेन्न । पञ्चजनशब्दस्य रूढिरेव नावयवशक्त्यात्मको योग इत्युक्तत्वात् । प्राणापाना- दिष्विति । ते वा एते प्राणापानादयः पञ्चजनाः ब्रह्मवायव इत्यन्वयः । समासे लक्षणाप्रसङ्गात् । ११४ ब्र० सू० २० 953