अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1056, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ९०७ कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः ॥ १४ ॥ (१।४।४) श्रुतेर्विप्रतिषेधात् स्मृतिरेव प्राप्नोति मतं दूरीकर्तुं श्रुतिविप्रतिषेधो नास्ती- त्यधिकरणमारभते । तत्र श्रुतौ सृष्टिभेदा बहवः कचिदाकाशादिका । 'आत्मन आकाशः संभूतः' इति । कचित् तेजःप्रभृतिका । तत् तेजोऽसृजतेति । कचिदन्य- भाष्यप्रकाशः । कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः ॥ १४ ॥ ननु पूर्वाधिकरणैः सांख्यमतस्य श्रौतत्त्वे निराकृते पुनरस्य किं प्रयोजनमित्याकाङ्क्षायामधिकरणप्रयोजनमाहुः श्रुतेरित्यादि । स्मृतिरिति सांख्यस्मृतिः । मतमिति सांख्याभिमतम् । नास्तीति इति बोधनाय । विप्रतिषेधबोधकं विषयमाहुः तत्रेत्यादि । असृजतेत्यन्तम् । अन्यथैवेति युगपत् साक्षात् । संशयस्तु एकस्यां सृष्टौ वक्तव्यायामेवं विप्रतिपन्ननानाप्रकारकक्रमेण तदनिर्णायिकां श्रुतिं विहायैकप्रकारनिर्णायिका स्मृतिरेवादर्तव्या ? उत, विप्रतिषेधं परिहृत्य सर्वस्मृत्युपजीव्या -रश्मिः । इति पचेः कनिन् कर्तरि, तथा च व्यक्तीकृतबुद्धिवृत्तीनां जनाः पञ्च व्यक्तिकारका प्राणादय इत्यर्थौ भवति न रूढ्या प्राणादयोर्थाः । रूढेर्वेदान्तानङ्गत्वत् । योगबोधकव्याकरणसाङ्गत्वात् । न च भाष्ये यौगिकार्थः कुतो न कृतः इति शङ्क्यम् । भगवदिच्छया प्रसिद्धो योर्थस्तत्परत्वात् भाष्यस्य, उक्तार्थापिसिद्धत्वाद्वा भाष्येनेति ॥ १३ ॥ इति तृतीयमधिकरणम् । कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः ॥ १४ ॥ श्रुतेरित्यादीति । प्राप्तये । विप्रतिषेधात् अनेकधा विरुद्धप्रतिनिधिप्रापणात् । श्रुतेर्हेतोर्दूषणे विप्रतिषेधात् । प्राप्नोति । अयमर्थः । ननु प्रथमस्य तृतीयपादे औदुम्बरी स्पृष्ट्वोद्गायेदिति श्रुत्या औदुम्बरी सर्वा वेष्टयितव्येति स्मृतिरप्रमाणमित्युक्ते प्राप्नोति श्रुतिरेव नोदेतीति चेन्न । मूढग्राहेण स्मृतिसंग्रहात् । तथाहि औदुम्बरी ज्योतिष्टोमे सदोनामकस्य मण्डपस्य मध्ये काचिदौदुम्बरीशाखा निखन्यते तस्याश्च वेष्टनं वाससा स्मर्यते इति श्रुतिसङ्गहिता स्मृतिरप्रमाणम् । सांख्यस्मृतिस्तु तच्छाखारूपा अहङ्कारः कर्तव्य इति वाक्य- प्रमाणान्न सांख्यानाम् । 'एकं सांख्यं च योगं च वेदारण्यकमेव च। परस्पराङ्गान्येतानि पञ्चरात्रं च कथ्यते' ॥ इति परस्पराङ्गत्वात् । तथा चैतन्मतम् । तदुक्तं 'यावानर्थ उदपाने' इति गीतायाम् । 'दास्योपेतः सदादृतः' इति निबन्धे । तृतीयाधिकरणे सदाचारस्य मानत्वमुक्तम् । दूरीकर्तुमिति तत्र श्रद्धात्यागेन पाषण्डित्वापाद