अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1072, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । १२३ तत्र, 'कैष एतद् बालाके पुरुषोऽशयिष्टे'त्यादौ जीवः प्रक्रान्तः । तस्मादेव सर्वोत्पत्तिरुक्ता ब्रह्मणोऽप्यनुप्रवेशश्च । तत्र संदेहः । जीव एव ब्रह्मसहितः कर्ता ? ब्रह्मैव वेति ? । तत्र जीव एव कर्ता सर्वस्य जगतो ब्रह्मत्वादयस्तस्य धर्माः राजत्ववद् यजमानत्ववद्वा । अस्मिन् प्रकरणे ब्रह्मोपक्रमेण जीवपर्यवसा- नोक्तेः । सर्वत्रैव ब्रह्मत्वेनोक्तो जीव एव कर्ता । तथा सति लोकेऽपि जीवकर्तृत्वं सहजं भवेत् । बन्धमोक्षव्यवस्था च । एवं सत्यर्थात् प्रकृतेरेव फलिष्यतीत्येवं प्राप्ते भाष्यप्रकाशः । विषयः । संदेहमाहुस्तत्रेत्यादि । पूर्वपक्षमाहुः तत्र जीव इत्यादि । सर्वस्य जगतो जीव एव कर्ता । यो वै बालाका एतेषां पुरुषाणां कर्ता यस्य चैतत्कर्मेति कर्तारं वेदितव्यत्वेनोपक्षिप्य सुप्तपुरुषनिकटगमनाद्युत्तरं तस्मादेव प्राणानां देवानां लोकानां चोत्पत्तिकथनात् । नच ब्रह्मणोऽपि कर्तृत्वम् । तदनुप्रवेशमात्रस्यैव बोधनात् । अतः साहित्यमात्रं ब्रह्मणो भवतु । नच जीवस्य रश्मिः । तु चतुर्थाध्याये बृहदारण्यके । तत्रेत्यावीति कैष एतद्द्वालाके पुरुषोऽशयिष्टेति पुरुषपदमुपक्रमो ब्रह्म ते ब्रवाणीति संदेहबीजं ब्रह्मणोनुप्रवेशस्यावार्थत्वाद्ब्रह्मसहित इति । एतेषामिति स वेदितव्य इति श्रुतिशेषः । श्रुत्यर्थः पूर्वपक्षे जीवपरः यत्तदोर्नित्यसंबन्धात् । यस्य वा एतत्कर्म त्रिविधमिति जीवः कर्ता न ब्रह्म धर्माधर्मलक्षणकर्मोनाश्रयत्वात् स जीवो वेदितव्य इति । उपक्षिप्येति प्राप्तकाले कृत्यप्रत्ययेनोपक्षेपो ध्वनितः । सुप्तपुरुषेति आदिपदार्थः पूर्वमुक्तः । तस्मादेवेति जीवादेव । साहित्यमात्रमिति । ब्रह्मणा सहपुरुष इति न तु स यदा प्रतिबुद्ध्यते इत्यनन्तरमेतस्मादा- त्मनः इत्यत्र ब्रह्मसहितादात्मनो जीवादित्यर्थेन ब्रह्मणो विप्रतिष्ठन्ते इति क्रियायामन्वयः । पुत्रेण सहागतः पिता इत्यत्रेव । ब्रह्मत्वादय इति भाष्यमवतारयन्ति न च जीवस्येति । तथात्रेति अत्र सांख्यमते 'प्रकृतिपुरुषयोः अन्यत्सर्वमनित्यम्' 'असङ्गो ह्ययं पुरुषः' इति च वदतां सांख्यानां न जीवः पुरुषातिरिक्तः तस्य व्यवस्था मायावादिवत् । प्रकृत्यभिमनृत्वमिति मलिनबुद्धौ प्रतिबिम्बितत्वं जीवत्वं प्रकृतौ प्रतिबिम्बितत्वमीश्वरत्वं प्रकृतिपुरुषयोरनादिरविवेकः । 'निःसङ्गेप्युपरागोऽविवेकात्' जपास्फटिकयोरिव नोपरागः किं त्वभिमानः । तथा च प्रकृतेर्जडायाः अप्यभिमनृत्वमहं कर्तेति तदेव ब्रह्मत्वं चिदुपरागस्याप्यविवेकानादित्वेनानादित्वात् । तदभिमनृत्वमुपाधिस्तदा भवति यदा ज्ञानान्मुक्तिः सा तु मलिनबुद्धिरूपप्रतिबिम्बाधारनिवृत्तिः 'मुक्तिरन्तरायध्वस्तेर्न परः' इति अतस्तेषां ब्रह्मत्वादीनामपि आगन्तुकत्वं मलिनबुद्धिरूपोपाधेः स्वाभाविकत्वात् । अभि मन्ता गीतातत्रयोदशाध्याये । 'प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि । विकारांश्च गुणांश्चैव विद्धि प्रकृतिसंभवान् ॥ कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते । पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ॥ पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान् गुणान् । कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु ॥ उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः । परमात्मेति चाप्युक्तो देहेस्मिन् पुरुषः परः' ॥ इति । 975