अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1074, कुल 2600 में से
संदर्भ में पढ़ेंङच्यते । जगद्वाचित्वात् । एतेषां पुरुषाणां कर्ता यस्य चैतत् कर्मेत्युपक्रमे एतच्छब्देन जगदुच्यते । पुरुषशब्देन च जीवः । तज्जडजीवात्मकं जगद् ब्रह्मकर्तृकमिति हि पूर्वसिद्धम् । तदनुरोधेनात्रापि ब्रह्मपरत्वमेवोचितं, न तु सर्वविप्लवोऽश्रुतकल्पना च । अतः सुषुप्तावपि ब्रह्मण्येव लयस्तस्मादेव सर्वमिति ज्ञातव्यम् । प्राणात्मश- ब्दवाच्यत्वं तु पूर्वमेव सिद्धम् । तस्मान्न जीवाधिष्ठिता प्रकृतिः कारणम् ॥ १६ ॥ भाष्यप्रकाशः। धीनत्वात् । न च ब्रह्मानुप्रवेशोक्तिवैयर्थ्यम् । तस्य साक्षित्वमात्रबोधनार्थत्वात् । तच्चं तु, स एष इत्यैक्यविधानान्न प्रकृतेो भिन्नम् । अतोऽभिमानिन एव कर्तृत्वात् प्रकृतेरेव कर्तृत्वमर्थादेव फलिष्यतीत्येवं प्राप्ते इत्यार्थः । समाधिं व्याकुर्वन्ति एतेषामित्यादि । अत्रापि कारणत्वेनेत्य- नुवर्तते । कारणत्वेन ब्रह्मैवादरणीयम् । नात्र जीवः कर्तृत्वेन विवक्षितः । कुतः ? जगद्वा- चित्वात् । अत्र हि बालाकिनोक्तानादित्यादीन्निराकृत्य अजातशत्रुणा, 'यो वै बालाक एतेषां पुरुषाणां कर्ता यस्य चैतत् कर्म स वै वेदितव्यः' इति सिद्धान्तकथनोपक्रमे, एतेषामित्ये- तच्छब्देनादित्यमण्डलाद्युल्लेखादुपलक्षणविधया जडं जगदुच्यते । पुरुषशब्देन च जीवरूपम् । तज्जडजीवात्मकं जगद् ब्रह्मकर्तृकमिति हि पूर्वसिद्धम् । आदित्यमण्डलाद्युत्पत्तेः प्रागेव, 'यतो वा इमानि भूतानि जायन्ते', 'तत्तेजोऽसृजत', 'एतस्माज्जायते प्राणः' इत्यादिष्वादिसृष्टिबोधिकासु रश्मिः। तस्यां मूलप्रकृतावेवेति सांख्यमतम् । न च कर्ता कारयिता हरिः इत्युक्तब्रह्मानुप्रवेशो हि कर्तृत्वा- देवं तु तदुक्तिवैयर्थ्यमित्याशङ्कय समाधत्ते न च ब्रह्मेति । 'असङ्गो ह्ययं पुरुषः' इति सूत्रात् । पञ्चविंशतितत्त्वेषु कुत्रास्य प्रतिबिम्बितत्वस्य निवेश इत्याशङ्क्याहुः तच्चं त्विति । स एष इत्युपसंहार- श्रुतिः । एवं सतीति भाष्यं विवृण्वन्ति स्म अत इति । ननु भाष्ये एवं सतीत्यस्याभिमानिन एव कर्तृत्वे सतीत्यर्थः । अत्र तु पञ्चम्यन्तं कुत इति चेन्न विवक्षातः कारकाणि भवन्तीति । अर्थादिति लक्षणत्वरूपार्थात् प्रकृतेर्विकारशीलायाः । एतेषामित्यादीति भाष्ये एतेषामादित्यादीनाम् । एतत् श्रुति गच्छतीत्येतत् 'एतेस्तुट् च' इति सूत्रेणादिप्रत्ययस्तस्य तस्य तुडागमश्च । कर्मेति क्रियत इति कर्म 'सर्वधातुभ्यो मनिन्' इति मनिन् । कृति कर्म जगदित्युक्तम्, तच्च जडम् । 'ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया' ॥ इति गीतातः । पुरुषेति पुरुषाणामित्युक्तः पुरुषशब्देन जीवः । प्रकृते । अग्रेमां श्रुतिं सफलामाहुः पूर्वापरसंबन्धाय । अत्र हि बालाकिनेति । निराकृत्येति अत्र हि बालाकिरजात- शत्रुंणा ब्रह्म ते ब्रवाणीति संवदितुमुपचक्रमे स च कतिचिदादित्याद्यकारणान्पुरुषान् मुख्यब्रह्मदृष्टि- भाज उक्त्वा तूष्णीं बभूव तमजातशत्रुरुवाच वै खलु मा संवदिष्ठा ब्रह्म ते ब्रवाणीति । अमुख्याब्रह्म- वादितया तं निराकृत्येत्यर्थः । तत्कर्तारमन्यं वेदितव्यतयोपचिक्षेप तमाहुः अजातशत्रुणेति । एतच्छब्देनेति भाष्यमवतारयन्ति एतेषामित्येतच्छब्देनेति । उक्तार्थस्य भगवदिच्छया प्रसिद्ध- भावात् प्रसिद्धार्थमाहुः उपलक्षणेति । पुरुषेति भाष्यं विवृण्वन्ति पुरुषशब्देनेति । जीवेति पुरि शेते इति व्युत्पत्त्या जीवरूपं जगदुच्यते । तज्जडेति भाष्यं विवृण्वन्ति तज्जडेति । भूतानीति दृष्टां खमग्नि विद्याद्यपि च तेजोपाम छान्दोग्यश्रुतिः । इत्यादिविष्विति । ११७ ब्र० सू० २० 977